SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Jain Education तत्राथ सप्तमदिने, वणिक् कोऽप्यन्यमन्दिरात् । आगतस्तेन तद्वस्तु, नीतं द्विगुणमूल्यतः ॥ २७ ॥ इत्थं दिने दिने तस्य वृद्धिर्वाणिज्यतोऽभवत् । स्वल्पैरेव दिनैः पूर्णा, अस्याष्टादश कोटयः ॥ २८ ॥ एवं विवेकतो जातो, धनदत्तो महाधनी | महादानेन लोके च, कल्पशाखीव विश्रुतः ॥ २९ ॥ अन्यदा सिद्धदत्तः स धनदत्तेन संयुतः । व्रजन राजपथेऽपश्यत्, कलिं भूपतिपुत्रयोः ॥ ७३० ॥ नृपपुत्रौ वृद्धलघू, विवदन्तौ परस्परम् । विलोक्य धनदत्तोऽगादन्यमार्गे विवेकतः ॥ ३१ ॥ सिद्ध दत्तस्तु तत्पृष्ठे, लग्नो गच्छन् विनोदतः । ताभ्यां साक्षीकृतो वादे, स चानीतो नृपान्तिके ॥३२॥ राज्ञा पृष्टः स पुत्राभ्यां त्वं हि साक्षीकृतोऽसि रे । वद भो न्यायमन्यायमेतयोरथ सोऽब्रवीत् ॥३३॥ स्वामिंस्ते वृद्धपुत्रोऽयमुत्कटो वर्त्तते महान् । लघुस्तु बालभावत्वाद्, यद्वा तद्वा वदेद् वृथा ॥ ३४ ॥ अविवेकेन तेनेदं प्रोक्तं राजसभान्तरे । तच्छलं प्राप्य राज्ञाऽस्य, नीता विंशतिकोटयः ॥ ३५ ॥ द्वेषतस्तस्य केनापि, पक्षपातोऽपि नो कृतः । धनदत्तः सुखीजातः, प्रस्तावज्ञो विवेकवान् ॥ ३६ ॥ एकदा तावुभौ मन्त्रिसौधस्याधस्तु जग्मतुः । गवाक्षस्थितया दृष्टौ, मन्त्रिपल्या रतिस्त्रिया ॥ ३७ ॥ ional For Private & Personal Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy