________________
महा
धर्म. सार्थाद्भष्टः क्षुधातृष्णामहातापैः प्रपीडितः । तदाश्रित्य तरुच्छायां, स श्रान्तत्वादुपाविशत् ॥ ४ ॥ ॥१४॥ तं मुनिं प्रेक्ष्य राजा स, राजीवृन्दसमन्वितः । तत्रागत्य सुभावेन, ववन्दे विनयान्वितः॥ ५॥
प्राशुकानपयोदानैः, स्वस्थीचक्रेऽमुना मुनिः। धर्म श्रुत्वा च तत्पाद्ये, श्रावकत्वं समाश्रयत् ॥ ६ ॥ एवं पुनर्नृपे तस्मिन् , वसन्ततौ वने गते । सार्थभ्रष्टं साधुयुगं, तृषार्त तत्र चागतम् ॥ ७ ॥ राज्ञा तन्दुलनीरेण, तयोःः संपूर्य तुम्बकम् । दत्तं साधू च तत्प्रीत्या, स्वस्थीभूतौ गतौ क्वचित् ॥८॥ रत्नवीरनपः सोऽथाराध्य धर्म जिनोदितम् । मृत्वा चायुःक्षये जातो, रत्नपालो नपो भवान् ॥ ९॥ श्रीदेव्यपि मृता राज्ञी, जाता शृङ्गारसुन्दरी । तापसः सिद्धदत्तोऽथ, कृत्वाऽज्ञानतपो मृतः ॥ ८१० ॥ जयनामाभवन मन्त्री, स ते राज्ये धराधिपः । पूर्व त्वयाऽस्य यत्पोतो, धृतो द्वादश वासरान् ॥११॥ तस्माद्वादश वर्षाणि, तेन त्वद्राज्यमाददे । पुरातिदण्डितस्तेन, जातो वैरी तवेह सः ॥ १२ ॥ शृङ्गारसुन्दरी पूर्वभवे मार्गे क्वचिन्मुनिम् । कायोत्सर्गस्थितं धूलिक्षेपणाद्यैरताडयत् ॥ १३॥ तेन पापप्रभावेण, पीडिता जयमन्त्रिणा । कृतोऽल्पो हि महर्षीणामुपसर्गोऽतिदुःखदः ॥ १४ ॥
॥१४॥
Jain Education Intola
For Private Personel Use Only
X
ainelibrary.org