________________
Jain Education
अन्येद्युः नगरे कश्चिद्दुष्टो राक्षस आगतः । अकस्मात् नृपतिं हृत्वा, गत्वा च व्योमनि स्थितः ॥९३॥ मृततुल्यं नृपं दृष्ट्वा, विलक्षा व्यालपन्प्रजाः । शान्तिकं पौष्टिकं भोगानू, बलिं चक्रुश्च मन्त्रिणः॥९४॥ ततः प्रत्यक्षतां प्राप्तो, राक्षसः स्माह भो जनाः !। यदि मे कोऽपि सत्त्वेन दत्ते स्वाङ्गबलिं नरः ॥ ९५ ॥ तस्य मांसेन तृप्तोऽहं नृपं मुञ्चामि नान्यथा । श्रुत्वैवं ते जनास्तस्थुरधोवत्रा असाध्यतः ॥९६॥ युग्मम् । तत्रागाद्धनदत्तोऽथ, परोपकृतिकर्मठः । विशेषान्नृपवात्सल्यात्स्वामिकार्यैकतत्परः ॥ ९७ ॥ साहसेन पलादस्य, निजाङ्गं तेन कल्पितम् । तदा तत्सत्त्वतुष्टेन, विमुक्तो रक्षसा नृपः ॥ ९८ ॥ स्वर्णद्वादशकोटीनां, घनदत्तगृहे सुरः । वृष्टिं कृत्वा गतः स्थाने, देवाः पुण्यवशाः किल ॥ ९९ ॥ नृपेण धनदत्तोऽसौ निजजीवितदायकः । सर्वामात्येषु मन्त्रीशः, कृतो मुख्यो महामतिः ॥ ८०० ॥ षट्पञ्चाशत्कोटिनाथो, धनदत्तोऽभवत्क्रमात् । विवेकात्कुरुते धर्म्म, दृष्ट्वा धर्मफलं महत् ॥ १ ॥ अथैकदा वसन्तत, राजा स्वान्तःपुरान्वितः । वसन्तखेलनायोच्चैर्महारङ्गाद्वने गतः ॥ २ ॥ क्रीडतस्तस्य मध्याह्ने, भुक्तिसामग्रिका कृता । इतश्चाययौ द्वादशयोजनारण्यतो मुनिः ॥ ३ ॥
zional
For Private & Personal Use Only
ww.jainelibrary.org