________________
महा.
॥१४॥
तत्रोपायं महाद्रव्यं, वलित्वा त्वरितं पुनः । आगत्य त्वद्गृहे भद्रेऽहं स्थास्यामि महासुखम् ॥ ८२॥ किं याचसे वृथा धूर्तेत्युक्त्वा किश्चिद्ददौ न सा । ततो धृत्वा स्वहस्ते सा, नीता तेन चतुष्पथे ॥ ८३ ॥ वारयितुं विवदन्तौ, तौ केनापि न शक्यते । न भनोऽसौ यदा वादस्तदा वेश्याऽब्रवीदिदम् ॥ ८४ ॥
अमुं भनक्ति यो वादं, तस्मै कनककोटिकम्।दास्यामि नान्यथा वाग्मे, या प्रोक्ता लोकसाक्षिकम् ॥८॥ तिच्छृत्वा धनदत्तोऽथ, विवेकोत्पन्नबुद्धितः । कोटिद्वादशमूल्यानि, रत्नानि धृतवान् करे ॥ ८६ ॥
वाम भुजे दर्पणश्च, धृत्वा तं धूर्त्तमब्रवीत् । मणीन् गृहाण भद्रेतान्, दर्पणे प्रतिबिम्बितान् ॥८७॥ धृत्तॊ जगाद रे धूर्त!, किमिदं दीयते मम । प्रतिबिम्बानि रत्नानां, गृहीतुं को नरः क्षमः ? ॥ ८८॥ धनदत्तोऽवदत्किं वो, जनोक्तिरिति न श्रुता ? । यादृशी भावना चित्ते, सिद्धिर्भवति तादृशी॥ ८९॥ प्रासादसदृशो देवो, देवतुल्या च पात्रिका । यादृक् स्वर्णं त्वया न्यस्तं, तादृशं ह्ययंते मया ॥७९॥ ॥१४॥ स्वप्ने न्यस्तं याचसे त्वं, दीयते प्रतिविम्बितम् । कश्चिद्दोषो हि नास्त्यत्र, धूर्ते धूर्तत्वमाचरेत् ॥११॥ विलक्षीभूय धूर्तोऽसौ, धिकृतः कुत्रचिद्गतः । वेश्यातः स्वर्णकोटिञ्च, नीत्वा दानं धनो ददौ ॥ ९२॥
S
Jain Education
ujainelibrary.org
For Private Personal Use Only
a
l