SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Jain Education T धनदत्तस्य सद्बुद्धिं वीक्ष्य राजा चमत्कृतः । दत्त्वा पञ्चापि रत्नानि, प्रेषितोऽसौ निजे गृहे ॥ ७१ ॥ अथान्येद्युः पुनः कोऽपि, सार्थेन सह सार्थपः । स्वामी द्वादशकोटीनां, धूर्त्तत्वेनागतः पुरे ॥ ७२ ॥ सुरूपो यौवनावस्थः, स्फारशृङ्गारशोभितः । गणिकाऽनङ्गलेखाया, मन्दिरे तत्र सोऽगमत् ॥ ७३ ॥ महेभ्य इति तं ज्ञात्वा, वेश्या सन्मानपूर्वकम् । चित्ते कपटमाधाय, माययैवं तदाऽब्रवीत् ॥ ७४ ॥ अहो ममाद्य सद्भाग्यं, जजागार पुरातनम् । यतो जङ्गमकल्पद्रुः, प्राप्तोऽयं मम मन्दिरे ॥ ७५ ॥ अद्य स्वप्ने मया स्वामिन्!, स्वर्णद्वादशकोटयः । त्वत्तः प्राप्ता अभूत्सत्यं तत्प्रत्यक्षं तवागमे ॥७६॥ धूर्तो धूर्त्तवचः श्रुत्वा, हसित्वोवाच तादृशम् । भद्रे ! सत्यं त्वया प्रोक्तं, परं मे वचनं शृणु ॥ ७७ ॥ स्वप्नमध्ये मयाप्यद्य, हेमाष्टादशकोटयः । न्यासार्थं त्वगृहे मुक्तास्तदर्थेऽहमिहागतः ॥ ७८ ॥ मयाऽष्टादश वर्षाणि, स्थातव्यं त्वगृहे मुदा । परमेकामिमां वार्त्ता, मदीयां शृणु सुन्दरि ! ॥ ७९ ॥ साम्प्रतं सबलं साथै, कृत्वा देशान्तरं प्रति । व्यवसायार्थलाभार्थ, गमिष्याम्यहमेकदा ॥ ७८० ॥ ततोऽष्टादश कोटीनां, मध्यात् द्वादशकोटयः । मम स्थापनिका देया, यामि देशान्तरं यथा ॥ ८१ ॥ tional For Private & Personal Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy