SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ धर्म अत्याग्रहेण भूपेन, प्रदत्तं रत्नपञ्चकम् । तेन नीत्वा च विक्रीय, कृताः षट्कोटिटङ्ककाः ॥ १६ ॥ ॥१३८धनदत्तेन तद्दव्यैर्व्यवसायं चिकीर्षुणा । प्राक् स्वपुण्यमपुण्यं वा, विलोकयितुमीप्सितम् ॥ १७ ॥ स्वकीया दिवसा रम्या, अरम्याः सन्ति वाऽधुना। स्वल्पस्वल्पेन कार्येण, परीक्षामिति स व्यधात्॥१८॥ स्वल्पाहारं स जग्राह, तथाप्यासीदजीर्णता । अल्पोच्चात्पतितस्यास्य, देहपीडा बनाऽभवत् ॥ १९ ॥ स्वल्पक्रयाणके क्रीते, हानिर्जाता च विक्रये । एका च्छागी बहिर्मुक्ता, भक्षिता सा वृकेण च ॥७२०॥ एवं दिने दिने चापि, कृतं तेन परीक्षणम् । विपरीतेऽथ सजाते, दिना ज्ञाताश्च मध्यमाः ॥२१॥ स्वदिनं मध्यमं ज्ञात्वा, स्वस्थीभूतः कियदिनान् । व्यवसायं न चक्रे स, चक्रे धर्म विशेषतः ॥२२॥ कियत्यथ गते काले, धनदत्तेन धीमता । प्राग्वद्दिनपरीक्षार्थमेका क्रीता त्वजाऽन्यदा ॥ २३॥ प्रसूता तद्दिने युग्मं, ततोऽभूत्रिकमेकतः। तद्दिनात् यत्स जग्राह, तत्सर्व त्रिगुणं ह्यभूत् ॥ २४ ॥ इत्थं शुभदिनं ज्ञात्वा, धनदत्तो विवेकतः । ततो वाणिज्यमारेभे, सुमुहूर्ते स्वशक्तितः ॥ २५ ॥ तदा देशान्तरायातसार्थतः प्रथमे दिने । पञ्चकोटिसुवर्णेन, क्रीतं सर्वं क्रयाणकम् ॥ २६ ॥ ॥१३८॥ Jan Education For Private Personal Use Only OJ ainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy