SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter स्वभावोऽयं हि लोकानां, येह साधमिणी क्रिया । तां गाम्भीर्यगुणं धृत्वा, स्वयमेकः करोति न ॥ ५॥ तैः सर्वैरपि सम्भूय, धनदत्तस्य भाषितम् । त्वं मुञ्चाग्निं स मेने तज्जना दूरेऽथ ते स्थिताः ॥ ६ ॥ धनोऽथ वह्निदानाय, शबवस्त्रमपाकरोत् । वस्त्रे ग्रन्थि तदा दृष्ट्वा, छोटयित्वा व्यलोकयत् ॥ ७ ॥ दृष्टानि पञ्च रत्नानि, बहूमूल्यानि तान्यथ । विवेकात्परकीयानि, नादत्तान्यग्रहीदसौ ॥ ८ ॥ महाजनस्य तेनापि, गृहीत्वा दर्शितानि च । तस्य निर्लोभतां ज्ञात्वा, ते सर्व्वेऽपि चमत्कृताः ॥९॥ ते सर्व्वे वणिजस्तुष्टास्तं प्रत्येवं बभाषिरे । अस्माभिस्तव दत्तानि रत्नानि त्वं गृहाण भोः ! ॥ ७१०॥ श्रुत्वैवं धनदत्तोऽपि प्रत्युत्तरमुवाच सः । अनाथं यद्भवेद्द्रव्यं, तस्य स्वामी नृपो भवेत् ॥ ११ ॥ भवेयुगत्रिणः केऽपि, वैदेशिकनरस्य वा । तेषां हि रत्नसंबन्धो, नाहं गृह्णाम्यमूनि तत् ॥ १२ ॥ तेन वस्त्रे ततो वच्ध्वा तानि मुक्तानि भूपरि । कृत्वाऽथ शवसंस्कारं स्वस्वगेहे जना गताः ॥ १३ ॥ धनदत्तोऽपि रत्नानि गृहीत्वाऽऽगत्य च द्रुतम् । उक्त्वा सर्वे च सम्बन्धं, भूपतेस्तान्यढौकयत् ॥ १४॥ राजा जगाद हे भद्र !, त्वया शुश्रूषितो नरः । तद्रत्नानि गृहाण त्वं, यद्वा लब्धानि भाग्यतः ॥ १५ ॥ For Private & Personal Use Only ainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy