________________
॥१३७॥
यतःभक्त्या देवगुरून् सदा नमति यो दानं च दत्ते मुदा,
नो हिंसां कुरुते न जल्पति मृषा गृह्णात्यदत्तं न च । अन्यस्त्रीमपवर्जयेद्वहति नो गर्व न निन्देत्परं,
शुद्धात्मा धनदत्त एष विनयी दक्षोऽल्पलोभः क्षमी ॥ ९७ ॥ विवेकी धनदत्तोऽसौ, मिलिते श्रीमहाजने । आकार्यते वचस्तस्य, हितं सर्वोऽपि मन्यते ॥ ९८॥ अन्यदा तत्पुरे कश्चिदागाद्वैदेशिको वणिक् । रोगातः स मठे सुप्तस्तस्य शुश्रूषको न कः ॥ ९९ ॥ यस्मिन् ग्रामे पुरे वापि, नात्मीयः कोऽपि संवसेत् । क्षणं हि तत्र न स्थेयं, सुधीभिःशुभकाटिभिः॥७००॥ अनाथं तं नरं वीक्ष्य, धनदत्तः स्वशक्तितः । चकार तस्य शुश्रूषां, कर्मतः स मृतः परम् ॥ १॥ ततस्तदेहसंस्कारकृते संमिलिते जने । आहूतः सिद्धदत्तः सः, नागतो मदभारितः ॥२॥ ततो वैदेशिकं मत्यै, मृतमुत्पाट्य वेगतः । श्मशाने वणिजो जग्मुस्तैस्तत्र रचिता चिता ॥ ३ ॥ परमज्ञातगोत्रत्वाद्, दत्तेऽग्निं तस्य कोऽपि न । स्पर्धया वह्निदाने ते, विवदन्ते परस्परम् ॥ ४ ॥
॥१३७॥
Jain Education in
For Private Personel Use Only
Allainelibrary.org