________________
Jain Education Inte
सिध्वदत्तोऽथ लक्ष्मीं च, विवेकं धनदत्तकः । ययाचे तद्वरं दत्त्वा तयोर्देवी तिरोदधे ॥ ६५ ॥ अथैवं सिद्धदत्तस्य निर्विवेका रमाऽभवत् । विवेको धनदत्तस्य, भाजनं सर्वसंपदाम् ॥ ६६ ॥ अन्यदा सिध्वदत्तस्य कश्चित्कापालिको गृहे । आयातः सति मध्याह्ने, भक्त्या तेन स भोजितः ॥६७॥ तुष्टेन तेन त्रपुषीफलानि कति योगिना । दत्तानि सिद्धदत्ताय, मन्त्रितानि सुमन्त्रतः ॥ ६८ ॥ उक्तं चैतानि वप्तानि, प्ररोहन्ति घटीद्वये । तदल्ली यत्नयोगेन मण्डपेऽथ चटाप्यते ॥ ६९ ॥
| ततः पुष्पफलान्यस्याः, सुधारससमानि वै । भक्षितानि क्षुधां तृष्णां सर्व्वपीडां हरन्त्य हो ! ॥ ६७० ॥ वाताश्चतुरशीतिः षट्सप्ततिर्नेत्रजा रुजाः । अष्टादशापि कुष्ठानि, सन्निपातात्रयोदश ॥ ७१ ॥ | शाम्यन्ति फलमाहात्म्याद्विषे स्थावरजङ्गमे । इत्युदीर्य गतो योगी, सिद्धदत्तो व्यचिन्तयत् ॥ ७२ ॥ अहो ! मयाऽद्य लब्धानि, फलान्येतानि भाग्यतः । उतं च विधिना तेन, फलं तत्फलितं क्षणात् ॥ ७३ ॥ हर्षेण सिद्धदत्तेन, शब्दोऽथो पातितः पुरे । अहो ! ये व्याधिता लोकाः सर्वेऽप्यायन्तु मद्गृहे ॥ ७४ ॥ द्रव्यं शतसहस्त्रादि, यथायोगं स लोभतः । पूर्व्वमादाय दत्तेऽथ, फलान्येतानि रोगिणाम् ॥ ७५ ॥
For Private & Personal Use Only
hinelibrary.org