SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ धर्म फलेषु सेव्यमानेषु, नीरोगा अभवन् जनाः । सिद्धदत्तोऽपि तद्दव्यैरजायत महर्द्धिकः ॥ ७६ ॥ ॥१३६॥ अन्यदा सिद्धदत्तोऽसौ, धनलोभे प्रवर्धिते । परद्वीपं गतो वाछौं, पोतं संपूर्य वस्तुभिः ॥ ७७ ॥ तत्स्थानाद्वलिते तस्मिन्, यानपात्रं कुवायुना । प्रेरितं चाब्धिकल्लोलैः, पताकावन्ननत तत् ॥ ७८॥ तदा क्रयाणकान्यब्धौ, लोकैः क्षिप्तानि भूरिशः । लघुत्वेन ततः पोतः, शून्यद्वीपे ययौ रयात् ॥७९॥ पोतादुत्तीर्य लोकास्ते, तस्मिन्द्वीपे स्थितास्तटे । त्रपुषी सिद्ध दत्नेन, उता धान्यक्षये सति ॥ ६८० ॥ उद्गता फलिता वल्ली, तृप्ता जाता नराः फलैः । फलास्वादनतोऽप्यग्रे, बभूवुः सुखिनो जनाः ॥ ८१ ॥ अन्येयुरागता वार्द्धस्तत्रैका जलमानुषी । वारिता सिद्धदत्तेन, खादन्ती त्रपुषीफलम् ॥ ८२॥ । रत्नमेकं करे धृत्वा, तेन तस्याः प्रदर्शितम् । तदा साऽचिन्तयन्नूनमेष रत्नानि याचते ॥ ८३ ॥ ध्यात्वेति वेगतः पश्चाद् , गता सा जलमानुषी । समुद्राद्रत्नमानीय, सिद्धदत्ताय चार्पयत् ॥ ८४ ॥ यावन्मात्राणि रत्नानि, सिद्धदत्ताय सा ददौ । तावन्मात्रफलान्येष, तस्यै दत्ते स्म सर्वदः ॥ ८५ ॥ बहुकालेन सिद्धेन, रत्नराशिः कृतो भृशम् । पोते क्षिप्त्वा स रत्नानि, क्रमादागात्पुरे निजे ॥ ८६ ॥ ॥३६॥ Jain Education in For Private Personal Use Only 10hinelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy