________________
||१३४||
Jain Education
रक्तवर्णा ततो हंसी, हंसो नैवोप लक्ष्ययेत् (क्ष्य ताम् ) । दृष्ट्वा दृष्ट्वा पुनर्याति, पुनरायाति मोहतः ॥३२॥ न रमेत स्पृशेन्नैव, हंसो हंसी मनागपि । भ्रामं भ्रामं ततः पक्षी, महाखेदमवाप सः ॥ ३३ ॥ ईदृशो द्वादशघटीमानोऽभूद्विरहस्तयोः । एवं दृष्ट्वाऽथ रुक्मिण्या, मुक्ता प्रक्षाल्य पक्षिणी ॥ ३४ ॥ तदोपलक्ष्य हंसोऽसौ, प्रियाया मिलितो मुदा । एवं ताभ्यामन्तरायकर्माशुभमुपार्जितम् ॥ ३५ ॥ भद्रजीवोऽथ दानादिपुण्याज्जातो भवान्नृपः । रुक्मिणी शीलधर्मेण सञ्जाता रत्नमालिका ॥ ३६ ॥ हंसजीवो भवं भ्रान्त्वाऽमिततेजा बभूव सः । हंसी सा वनदेवी च, सजाता शुभकर्म्मतः ॥ ३७ ॥ अश्वाकृष्टो यदा सुप्तो, वने त्वं पूर्वमत्सरात् । जटीबन्धात्कृतः श्यामो, वनदेव्या तया तदा ॥ ३८ ॥ वारं वारं हृता राज्ञी, यत्तेनामिततेजसा । सन्तापितः पूर्वभवे, हंसस्तत्कर्मजं फलम् ॥ ३९ ॥ प्राग्द्वादशघटीमानो, वियोगः पक्षिणोः कृतः । भुक्तं द्वादशवर्षेषु, युवाभ्यां विरहासुखम् ॥ ६४० ॥ पुरातनं हि यत्कर्म्म, शुभं वाप्यशुभं भवेत् । जन्मकोट्यां गतायां तद्भोक्तव्यं नान्यथा भवेत् ॥ ४१ ॥ यतः - हसन्तो हेलया जीवाः, कर्म्मबन्धं प्रकुर्वते । तद्विपाको हि कायेषु, रद्भिरपि भुज्यते ॥ ४२ ॥
tional
For Private & Personal Use Only
महा.
॥१३४॥
ww.jainelibrary.org