________________
एतस्मिन्समये कोऽपि, व्योम्नो गरुडवाहनः । आगतः खेचरस्तत्र, ववन्दे च जिनेश्वरम् ॥ ९९ ॥ जिनस्नात्रं विधायाथ, स्नात्रनीरेण कुम्पकम् । भृत्वा च मण्डपे सोऽगात्, राजा नत्वा पप्रच्छ तम्॥६००॥ किमर्थं गृह्यते नीरं, कोऽसि त्वं कुत आगतः। युवत्या वसनं चैतत्, स्कन्धे ते वर्त्तते कथम् ? ॥ १॥ जगाद खेचरः सोऽपि, शृणु साधम्मिकोत्तम ! । ममैतां सकलां वानी, वदामि तव मूलतः ॥ २ ॥ वेताढ्येऽस्त्युत्तरश्रेण्यां, रत्नचूडो धराधिपः। तद्भाता मणिचूडोऽहं, सदा स्नेहभरान्वितः ॥३॥ कर्मयोगेन मद्भातुर्जातो दाहज्वरो महान् । एतत्स्नात्रजलेनाशु, यान्ति रोगा ज्वरादयः ॥४॥ जलायागच्छता मार्गे, जन्मेजयनृपप्रिया । मया दृष्टा खेचरेणापहृताऽमिततेजसा ॥५॥ सा सती वचनं तस्य, भोगार्थ नैव मन्यते । कामान्धो बहुधा सोऽपि, विडम्बयति तां ततः ॥ ६॥ मयाऽनेकप्रकारेण, बोधितोऽपि न बुध्यते । स नो मुञ्चति दुष्टात्मा, तां राज्ञी शीलशालिनीम् ॥ ७ ॥ रुदन्त्याःपथि गच्छन्त्यास्तस्याः वस्त्रं पपात च । तगृहीत्वाऽधुनाऽत्राहमागतो हे नरोत्तम! ॥ ८॥ ततो नृपेण वृत्तं खं, खेचराय निवेदितम् । जन्मेजयनृपं ज्ञात्वा, तस्मै वस्त्रं तदपितम् ॥ ९ ॥
००००००000000
For Private Personal Use Only
Jain Education lolona
w.jainelibrary.org
IA.