SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ॥१३२॥ अन्यायकारिणो वृद्धिं, यदि यान्ति महीतले । तदा लोकः कथं वेत्ति, ह्यन्तरं पुण्यपापयोः ? ॥cene महा. ॥ अथ सा जयमालापि, सहर्षाऽऽगत्य सत्वरम् । भगिनी रत्नमाला तामालिङ्ग्य प्रणनाम च ॥ ८९ ॥ स्वस्ववृत्तं यथाभूतं, ताभ्यामुक्तं परस्परम् । जयमालाऽथ भूपस्योद्वाहिता रत्नमालया ॥ ६९०॥ रतिप्रीतिसमानाभ्यां, ताभ्यां साधु स भूमिपः। कन्दर्प इव सद्भोगान, भुञ्जानोऽत्र स्थितः कियत्॥११॥ चचाल सप्रियो भूपः, पश्चात्पूर्वदिशं प्रति । कस्मिन केलिवने गत्वा, विशश्राम क्षुधातुरः॥ ९२ ॥ स्त्रीयुग्मे शयिते राजा, फलार्थी कानने गतः । यावत्फलानि लात्वा स, आगतो नरनायकः ॥ ९३ ॥ तावद् ददर्शनो सुप्तां, रत्नमालां निजप्रियाम् । प्रबुद्धा जयमालाऽथ, पृष्टा राज्ञा व ते स्वसा? ॥१४॥ सोचे देव ! विजानामि, नाहं निद्रावशं गता । राजोचे हा कथं भार्यावियोगो मे पुनः पुनः? ॥९॥ युक्ताऽथ कुत्र सुस्थाने, जयमालां महीपतिः। विरहार्नः स्वप्रियायै, स्वयं बभ्राम मेदिनीम् ॥ ९६ ॥ ॥१३२॥ भ्रामं भ्रामं महीपीठे, वनेऽगान् मलयाभिधे । तन्मध्ये च महोत्तुङ्गं, ददर्श श्रीजिनालयम् ॥ ९७ ॥ तत् दृष्ट्वा तत्र सोत्साहश्चैत्यमध्ये नृपो गतः । तत्र भक्त्या युगादीशप्रतिमा तेन वन्दिता ॥ ९८ ॥ Jain Education or For Private & Personal Use Only IYw.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy