SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ धर्म. सूरवीरावुभौ पुत्रौ, तयोः सौभाग्यशालिनौ । पुत्री च रत्नमालैका, जयमाला तथाऽपरा ॥६६॥ Ma महा. ॥१३॥ वार्धके नृपतिर्दीक्षा, गृहीत्वाऽगात् शिवालयम् ।राज्याथै भ्रातरौ तौ द्वावन्योऽन्यं योद्धमुत्थितौ ॥६७॥ तं विरोधं परिज्ञाय, धात्र्याऽथ हेममालया । रत्नमाला सुता नीत्वा, विमुक्ता तापसाश्रमे ॥ ६॥ पुत्रवत् पालिता साऽथ, रत्नसिंहतपस्विना । अत्र रत्नपुरे चाहमानीता जयमालिका ॥ ६९ ॥ चन्द्रकेतुनरेन्द्रस्य, मातुलस्य ममैव च । अर्पिताऽहं ततस्तेन, पुत्रीवत्परिपालिता ॥ ५७० ॥ सखीभिः सह क्रीडन्ती, गवाक्षस्थाऽहमन्यदा । दृष्टा कपालिना केन, याचिता मातुलान्तिके ॥७१॥ नाऽपिताऽहं स दूमित्वा, राज्ञा निर्वासितः पुरात् । तेन विद्याबलेनाथ, चन्द्रकेतुर्हतः कुधा ॥ ७२ ॥ भस्मीकृत्य पुरश्चापि, कृतं शून्यं दुरात्मना । अहन्तु स्थापिताऽत्रैका, पूर्वलोभेन पापिना ॥ ७३ ॥ इत्युक्त्वा सा पुनः प्रोचे, शृणु साहसिकाग्रणीः । तस्यागमनवेलैषा, सञ्जाता त्वं व्रज कचित् ॥७४॥॥१३१॥ स निघृष्टो महादुष्टस्त्वा मुग्धं मारयिष्यति । अतः कारणतो याहि, जीवन भद्राणि पश्यति ॥७५ ॥ राजा तं योगिनं द्रष्टुं, स्थिलो निर्माल्यमध्यगः । इतश्चाकाशमार्गे द्रार, जाता डमरकध्वनिः ॥७॥ Jain Education a l For Private Personel Use Only Syjeinerary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy