________________
अचिन्तयत्तदा राजा, ममाहो कर्म दुस्तरम् । प्राक्तनं विद्यते येन, भवे दुःखं पुनः पुनः॥ ५५ ॥ ॥ अत्रानीय विमुक्तोऽहं, सप्रियः केन वैरिणा ?। न ज्ञायते गतः क्कासी, तर्हि किं कस्य कथ्यते? ॥ ५६ ॥ तावत्तृषातुरा रत्नमाला ब्रूते स्म मे प्रभो ? । पाययानीय पानीयं, जन्तुस्तिष्ठेन्न तद्विना ॥ ५७ ॥ निर्गतौ कन्दरायास्तौ, सहकारतरोरधः। संस्थाप्य स्वप्रियां राजा, पानीयार्थ वनेऽभ्रमत् ॥५॥ यावज्जलं गृहीत्वा स, आगतो नरनायकः। न ददर्श प्रियां तावत्, सा हृता तेन वैरिणा ॥ ५९॥ विललाप ततो भूपो, मां मुक्ता क गता प्रिये ? । किङ्करोमि क्व गच्छाभि, विरहं ते कथं सहे ?॥५६०॥ शून्यचित्तो नृपोऽरण्ये, भ्रमन नृपः क्वचित् क्वचित् । तत्र शून्यं पुरं दृष्टं, प्रतोलीदुर्गमण्डितम् ॥६१ गतो मध्ये नृपस्तत्र, पश्यन् दग्धगृहावलीम् । दृष्ट्वा क्वचिन्नृपावासांश्चटितश्चैकमन्दिरे ॥ ६२॥ अपश्यत्तत्र शय्याधिरूढामेकाश्च बालिकाम् । क्षामोदरी सुरूपाञ्च, दृष्ट्वा तां नृपतिर्जगौ ॥ ६३ ॥ कथमेकाकिनी भद्रे!, शून्यञ्च किमिदं पुरम् ?। तद् ब्रूहि श्रोतुमिच्छामि, साऽब्रवीत् शृणु सत्तम!॥६॥ प्रसिद्धाऽस्ति महीपीठे, कोशाम्बीति पुरीवरा । तत्र कुशध्वजो राजा, पुष्पमालेति तत्प्रिया ॥६५॥
Jain Education HA!
For Private Personal Use Only
Jainelibrary.org