SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ॥१३०॥ | दिव्यरूपं पतिं वीक्ष्य, रत्नमाला मुदं दधौ । सख्या च प्रियवादिन्या, ज्ञापितस्तापसः पिता ॥ ४४ ॥ सोऽपि हृष्टो निजे चित्ते, मङ्गलध्वनिपूर्वकम् । महोत्सवं पुनश्चक्रे, तापसैश्च तदा मुदा ॥ ४५ ॥ तत्रान्यदागतः कश्चित्, खेचरः सैन्यसंयुतः । संवीक्ष्य रत्नमालां तां हर्तुं लग्नाश्च तद्भटाः ॥ ४६ ॥ आश्रमान् पातयामासुस्तापसांश्च व्यडम्बयन् । तद्विलोक्य डुढौकेऽथ, योद्धुं जन्मेजयो नृपः ॥४७॥ तं प्रौढविक्रमं दृष्ट्वा, भग्नास्ते खेचरा भटाः । दिशोदिशं प्रनष्टाश्च, स्थितवान् मुख्यखेचरः ॥ ४८ ॥ उभाभ्यां युद्धमारेभे, दिव्यास्त्रेण परस्परम् । युद्धयमानेन राज्ञाऽथ, खेचरो हेलया जितः ॥ ४९ ॥ न्यायधम्र्मे जयो ज्ञेयो, नान्यायेन जयो भवेत् । अदृष्टीभूय विद्याभृत्, स गतः कापि तत्क्षणात् ॥५५० ॥ तदाकाशात्पुष्पवृष्टिः, कृता देवैर्नृपोपरि । जन्मेजय नृपेणाहो, जितमेवञ्च भाषितम् ॥ ५१ ॥ ततो विशेषतो रत्नमाला स्नेहं नृपोपरि । दधती मुदिता भोगान्, भुनक्ति स्म यदृच्छया ॥ अथान्यदा शरत्काले, राजा राज्ञीयुतो वने । गत्वा विविधक्रीडाभी, रमते स्म स्मरोपमः इतश्च पूर्वशेषेण तेन विद्याधरेण खे । उत्पादय कन्दरायां द्राक्, तौ मुक्तौ कापि दम्पती ॥ ५२ ॥ ॥ ५४ ॥ Jain Educationtional For Private & Personal Use Only ५३ ॥ महा. ॥१३०॥ www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy