SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ॥ १२९॥ Jain Education नृपोऽपृच्छत्प्रभो ! काऽसौ, रत्नमाला वराङ्गना । पालितं विषमं शीलं यया तस्याः कथा वद ॥ २३ ॥ तथाहि - गुरुरूचेंऽत्र भरते, पृथ्वीभूषणपत्तने । जन्मेजयाभिधो राजा, राज्यं न्यायादपालयत् ॥ २४ ॥ अन्यदाऽन्येन राज्ञाऽस्य, प्रेषिता वाजिपुङ्गवः । परीक्षार्थं स्वयं राजा, तं समारोह यद्धयम् ॥ २५ ॥ | विपरीतशिक्षितोऽश्वः, सोऽचलत्प्राक् शनैः शनैः । राज्ञाऽचिन्ति विना वेगं, भव्येनानेन किं फलम् ? ॥२६॥ विचिन्त्यैवं क्रुधा राज्ञा, वल्गा मुक्ता कराद् यदा । तावदुच्छलितो वाजी, वायुवेगाञ्चचाल च ॥ २७ ॥ काञ्चिन्महीं व्यतिक्रम्य, भीमाटव्यां स तस्थिवान् । मुक्वा हयं श्रमाद्भुपः, सुप्तो वृक्षतले ततः ॥ २८ ॥ तावद् व्योमनि गच्छन्त्या, वनदेवतया कया । तत्रागत्य जटीखण्डं, बबन्धे नृपमस्तके ॥ २९ ॥ तत्प्रभावेण भूपस्य, जातं श्यामतरं वपुः । क्षणाज्जागरितो राजा, स्वं कृष्णाङ्गं व्यलोकयत् ॥ ५३० ॥ गतालङ्कारसद्वस्त्रं, श्यामं वीक्ष्य वपुर्नृपः । विस्मितश्चिन्तयामास, किमिदं जातमीदृशम ? ॥ ३१ ॥ एकाकिनो वनस्थस्य, दुःखिनो मे इदं पुनः । ज्वरे हिक्का क्षते क्षारो, दग्वोर्ध्वं स्फोटकस्तथा ॥ ३२ ॥ एतस्मिन् समये तत्र, पृष्ठे सैन्यं समागतम् । तं कृष्णं वीक्ष्य पल्लीशघिया पृष्ठं च तद्भटैः ॥ ३३ ॥ onal For Private & Personal Use Only महा ॥१२९॥ Jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy