SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ गुरुं नत्वा यथास्थानमुपविष्टो धराधिपः। प्रारंभे देशनां सूरिभव्याम्भोरुहबोधदाम् ॥ १५॥, अहो संसारवासेऽस्मिन्, जन्तवो जन्मकोटिषु । उत्पद्यन्ते विपद्यन्ते, लभन्ते न सुखं क्वचित् ॥ १६ ॥ यतः-चला विभूतिः क्षणभङ्गयौवनं, कृतान्तदन्तान्तरवर्ति जीवितम्। तथाप्यवज्ञा परलोकसाधने, अहो नृणां विस्मयकारि चेष्टितम् ॥१७॥ यलेन पापानि समाचरन्ति, पुण्यं प्रसङ्गादपि नाचरन्ति । आश्चर्यमेतच्च मनुष्यलोके, क्षीरं परित्यज्य विषं पिबन्ति ॥ १८॥ पुनः प्रभातं पुनरेव शर्वरी, पुनः शशाङ्कः पुनरुद्तो रविः । कालस्य किं गच्छति याति जीवितं, * तथापि लोकः स्वहितं न बुध्यते ॥ १९ ॥ सुधियः स्वहितायेव, सेवन्ते सुकृतं वरम् । दानशीलतपोभावभेदैरेव चतुर्विधम् ॥ ५२० ।। वित्ततो दीयते दानं, शीलं चित्तसमुद्भवम् । दुष्करं तं न मुञ्चन्ति, ते जनाः स्वर्गगामिनः ॥ २१ ॥ प्राणात्ययेऽपि ये शीलं, न त्यजन्ति विवेकिनः । निर्वृति रत्नमालावत्, तत्प्रभावात् प्रयान्ति ते ॥२२॥ Jain Educational For Private & Personal Use Only Allww.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy