SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ॥१२८॥ धर्म.पत्तनद्धीपदुग्र्गाणा, वेलाकूलकरीटिनाम् । कर्बटखेटद्रोणानां, सहस्रा विंशतिर्मताः ॥ ४॥ युग्मम् । हेमाङ्गदादयो विद्याधरेशाश्च सहस्रशः । सेवाञ्च चक्रिरे तस्य, नित्यं सद्भक्तियुक्तिभिः॥ ५॥ स नित्यं कोटिसङ्खचस्य, कनकस्य व्ययं व्यधात् । ददौ च परिवाराय, वस्त्राण्याभरणानि च ॥ ६ ॥ कुम्पकस्थरसात्तस्य, संपधेत धनं बहु । रसप्रभावतो राज्ये, न दुर्भिक्षं न डामरम् ॥७॥ व्याधयो नेतयो नैव, न दौःस्थ्यं नैव पीडनम् । सुखेन गमयामास, कालं सर्वजनोऽपि च ॥८॥ देवेन्द्रवन्नरेन्द्रोऽपि, दिव्यभोगान बुभोज सः । एकच्छत्रमयं राज्यं, चक्रे च चक्रवर्निवत् ॥ ९॥ एवं गतानि वर्षाणि, दश लक्षाणि भूभुजः । शतसंख्यसुता जाता, गृहस्थद्रुमसत्फलाः ॥ ५१० ॥ नामतस्तेऽभवन् पुत्रा, मेघहेमरथादयः । शुभलक्षणसम्पूर्णाः, सर्वावयवसुन्दराः ॥ ११ ॥ सुरूपाः सुभगाः सौम्याः, सर्वविद्याविशारदाः । संप्राप्तयौवनाः सर्वे, कृतपाणिग्रहोत्सवाः ॥ १२॥ एवं चामारियात्रादि, पुण्यं राशि प्रकुर्वति । सूरिः सुमतिसेनाह्वः, केवल्यागात्पुरेऽन्यदा ॥ १३ ॥ श्रीसूरिमागतं श्रुत्वा, राजा हर्षप्रपूरितः । परिवारेण संयुक्तो, वन्दितुं गतवान्वने ॥ १४ ॥ 1 . Jain Education in For Private Personal Use Only Silainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy