SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ महीशो महान् रत्नपालाभिधानः, खमार्गे वजन दिव्यराजद्विमानः । नरैः खेचरैःभक्तितःस्तूयमानस्तदा शोभते देवतावत्प्रधानः॥ ९४ ॥ ततः शीघ्रं गतो राजा, विमानस्थः पुरे निजे । लोकाः प्रमुदिताः सर्वे, चिराद्भपागमे सति ॥ ९५॥ मन्त्र्याद्याः सम्मुखा जग्मः, पतिता नृपपादयोः।राज्ञीद्वयान्वितोराजा, प्रविवेशोत्सवात् पुरम् ॥१६॥ रहे गृहे स्म गायन्ति, सुशृङ्गारास्तदाऽङ्गानाः। राज्ञो वर्धापनं चक्रुः, पौराः प्राभूतपूर्वकम् ॥ ९७ ॥ निष्कण्टकं निरातङ्क, राज्यं प्राज्यं करोत्यसौ । पुण्यमपि च पुण्यात्मा, विदधाति दिवानिशम् ॥९॥ एवं विवाहसबम्न्धा, यासामत्र प्रकीर्तिताः । महिष्यो नव मुख्यास्तास्तस्य राज्ञोऽभवन्निमाः ॥ ९९॥ शृङ्गारसुन्दरी चाद्या, द्वितीया रत्नवत्यपि । पत्रवल्ली मोहवल्ली, ततः सौभाग्यमञ्जरी ॥ ५०० ।। देवसेना च गन्धर्वसेना कनकमञ्जरी । गुणमञ्जरी चैतास्ता, नामभिनव कीर्तिताः॥ १ ॥ नवैता निधय इव, साक्षात्पूर्वभवप्रियाः । तथा त्रिंशत्सहस्राणि, राज्ञो राइयोऽभवन्पराः ॥ २ ॥ पत्रिंशत्कोटयो ग्रामाः, पत्तयः षष्टिकोटयः । त्रिशल्लक्षाश्च प्रत्येकं, रथनागेन्द्रवाजिनाम् ॥ ३ ॥ Jain Educatelemational For Private Personel Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy