SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ धर्म. नवे राज्ञि कृते राज्यस्थितिः काचिन्नवा भवेत् । महानन्देति नामातो, नवं रत्नपुरे कृतम् ॥ ८३ ॥ महा. ॥१२७॥ 1. मूलप्रधानमुख्यानां, शिक्षामेवं नृपो ददौ । राज्यरक्षा सदा कार्या, कार्या चिन्ता सुतस्य मे ॥ ८४॥ सुसेव्यो लघुरप्येषो, धार्याज्ञा सर्वदाऽस्य च । अहं पक्षं करिष्यामि, निजस्थाने गतोऽपि सन् ॥ ८५॥ एवं हि बहुधालाप्य, वस्त्राभरणदानतः । सन्तोष्य राजवर्ग तं, प्रीणिताश्च प्रजा अपि ॥ ८६॥ पुनः स्मृताऽथ सा देवी, ययाऽऽनीतः स बेडया। प्रत्यक्षीभूय साऽप्यूचे, किं स्मृताऽहं त्वया नृपः॥ ८७॥ राजोचे शृणु हे शक्ते!, तव भक्तिकृते मया । मम पुत्रोऽत्र मुक्तोऽस्ति, पालनीयः प्रयत्नतः ॥ ८८॥ सारा कार्या त्वया देवी, तस्य राज्ञो दिवानिशम् । पूजयिष्यति सोऽपि त्वां, सेवकस्ते भविष्यति ॥८९॥ अन्यच्चैकं विमानं त्वं, नवीनं कुरु मत्कृते । यत्रारूढो नभोमार्गे, स्वपुरे यामि लीलया ॥ ४९० ॥ देवी प्रोचे भवत्सूनोश्चिन्ताऽस्ति मम मानसे । एवमुक्त्वा विमानञ्च, कृत्वा दत्त्वा गता सुरी ॥ ९१॥ २७॥ अनुज्ञाप्य ततो लोकान्, पुत्रादीन स्वजनानपि । राजा विमानमारुह्य, चचाल स्वपुरं प्रति ॥९२॥ गजाश्वरथपत्त्यादि, सैन्यं पृष्ठेऽचलद्भुवि । तदा विचित्रवादित्रध्वनिभिः पूरितं नभः ॥ ९३ ॥ Jain Education Intl For Private Personel Use Only Mainelibrary.org Sts
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy