SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ राजोचे श्रूयतां सभ्या, भवद्भिः किं प्रजल्पितम् ?। जनोक्तिं किंन जानीथ, लघुस्थूलेषु को गुणः?॥७५॥ काव्यम्-हस्ती स्थूलतनुः स चाकुशवशः किं हस्तिमात्रोऽङ्कशः, वजेणाभिहताः पतन्ति गिरयः किं नमात्रो गिरिः । दीप प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तम स्तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः? ॥ ७६ ॥ लघुस्थूलेषु देहेषु, कः प्रयोगः प्रवर्त्तते । कलिङ्गफलमुत्तुङ्ग, मरिचं हि चमत्कृतम् ॥ ७७ ॥ । भयोऽपि श्रूयतां वृद्धैर्भवद्भिः परिवारितः। बालोऽप्यसौ सुपक्षःसन्, भविष्यति गुणाग्रणीः ॥ ७८ ॥ यतः-सुपक्षो लभते लक्ष, गुणहीनोऽपि मार्गणः । पक्षहीनो विलक्षोऽथ, मार्गणोऽगुणपूरितः ॥ ७९ ॥ सुपक्षो भक्षते काको, वृक्षस्थो विविधं फलम् । दूरस्थोऽपि निरीक्षेत, विनापक्षस्तु केसरी ॥ १८० ॥ एवमाख्याय दृष्टान्ताननुमत्या च मन्त्रिणाम् । राज्ये संस्थापयामास, मुहूर्ने निजनन्दनम् ॥ ८१ ॥ महानन्दपुरे रम्ये, राजाऽभूसिंहविक्रमः । एवमुद्घोषणां तत्र, कारयामास भूपतिः ॥ ८॥ Jnin Education a l For Private & Personal Use Only Frjainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy