________________
धर्म || दानं प्रजापरित्राणं न्यायोऽर्थों जनरञ्जनम् । राज्यकल्पद्रुमस्यैता, विपुलाः फलसंपदः ॥६५॥ ॥१२६॥ कुलशीलगुणोपेतं, सत्यधर्मपरायणम् । रूपिणं सुप्रसन्नं च, राज्याध्यक्षन्तु कारयेत् ॥ ६६ ॥
प्राज्ञे नियोजितेऽमात्ये, त्रयो गुणा महीपतेः । यशः स्वर्गनिवासश्च, पुष्कल श्च धनागमः ॥ ६७ ॥ कृतेष्वमात्येषु पुरातनेषु, चिरं स्थिरा राजात राज्यलक्ष्मीः। यतः शरावेषु नवेषु वारि, न्यस्तं समस्तं
विलयं प्रयाति ॥ ६८॥ मूर्खे नियोजितेऽमात्ये, त्रयो दोषाः महीपतेः । अयशः स्वार्थनाशश्च, नरके पतनं ध्रुवम् ॥ ६९ ॥ क्रमागतः शुचि/रः, सर्वरत्नपरीक्षकः । सुधी रक्षोऽभिचारी च, कोशाध्यक्षो विधीयते ॥ १७ ॥ इङ्गिताकारतत्त्वज्ञः, प्रियवाक् प्रियदर्शनः । सकृदुक्तग्रही दक्षः, प्रतिहारः प्रशस्यते ॥७१ ॥ मेधावी पटुवाग् दक्षः, परचित्तोपलक्षकः। धीरो यथाऽर्थवादी च, दूतः स्यात्सप्तभिर्गुणैः ॥७२॥ . धर्मशास्त्रार्थकुशलाः, कुलीनाः सत्यवादिनः । समाः शत्रौ च मित्रे च, नृपतेः स्युः सभासदः ॥७३॥ राज्यस्थितिमिमां राजन् !, विचारज्ञ! विचारय । बालोऽयन्ते सुतः स्वामिन् !, राज्यभारे कथं क्षमः?७४।
॥१२६॥
Join Education
a
l
For Private & Personal Use Only
Aww.jainelibrary.org