SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ धर्म. ॥ १२४॥ अस्मिन्न पारसंसारसागरे दुस्तरेऽपि च । लघुकर्म्मा तरत्येव, परो ब्रुडति लोष्टवत् ॥ २९ ॥ यथा प्रोतप्रयोगेण, सागरस्थावगाहनात् । दुर्लभान्यपि वस्तूनि, नीयन्ते पोतवाहकैः ॥ ४३० ॥ तथा गुरूपदेशेन, संसारस्यावगाहनात् । धर्मरत्नं हि दुष्प्रापं प्राप्यते भव्यजन्तुभिः ॥ ३१ ॥ | संप्राप्य भवपाथोधो, बोधिरत्नं सुदुर्लभम् । रक्षणीयं प्रयत्नेन यथा हरति कोऽपि न ॥ ३२ ॥ संयमार्थी नृपोऽप्यग्रे, विशेषाद् गुरुवाक्यतः । प्रतिबुद्धो महासेनो, विधिना व्रतमग्रहीत् ॥ ३३ ॥ अथ ज्ञानगजारूढः, शीलसन्नाहभृत् दृढम् । गृहीतध्यानखड्गश्व, दधत्संवेगखेटकम् ॥ ३४ ॥ गुर्वाज्ञाटोपकाटोपः, सकोपः क्रूरकर्म्मसु । चित्रं क्षमाघरः सोऽभून्मोहारिं जेतुमुत्सुकः ॥ ३५॥ युग्मम् । यतः - संमोहक्षितिपस्य संसृतिवधूवैधव्यदीक्षां दिशन्, सैन्येनेव चतुर्विधेन गुरुणा सङ्खेन दत्तोदयः । गुर्व्वीदेशनयानपत्रममलं बिभ्रत् शिरस्याभवं प्रव्रज्याभिधया विधेहि महिमाप्राज्यं स्वराज्यं चिरम् ३६ ॥ महाव्रतानि पञ्चापि, पञ्चाचारान् विचारतः । गुप्तीस्तिस्रोऽपि पुण्यात्मा, पालयामास सोऽन्वहम् ॥३७॥ For Private & Personal Use Only Jain Educationtional महा ॥१२४|| www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy