________________
..
.
.
*
त्यक्त्वा पञ्च प्रमादांश्च, विमुच्य मदमत्सरौ । रत्नपालयुतो भूपो, यथास्थानमुपाविशत् ॥ २३ ॥ गुरुर्धांशिषं दत्त्वा, नृपादीनां च तत्पुरः । विवेकोद्योतदीपाभां, प्रारंभे धर्मदेशनाम् ॥ २४ ॥ भो भव्याः! श्रूयतां सम्यगेतत्संसारचेष्टितम् । सर्षपेण समं सौख्यं, दुःखं मेरुसमं भवे ॥२५॥
यथा-चला विभूतिर्ननु जीवितं चलं, विनश्वरं यौवनमप्यकालतः। _इदं शरीरं बहुरोगमन्दिरं, विमृश्य चैवं कुरु धर्ममन्वहम् ॥ २६ ॥ काव्यम्-आसाद्य मानुष्यमथार्यदेशं, जाति प्रशस्यां कुलमुत्तमञ्च ।
रात्रिन्दिवा पुण्यमहो भजस्व, तस्योदयात्सर्वमनीषितं स्यात् ॥ २७॥ काव्यम्-सूत्रार्थी रत्नमालां दलति दहति वा चन्दनं भस्महेतो
र्नावं चाब्धौ भिनत्ति स्वहितविरहितो लोहकीलं जिघृक्षुः । प्राप्याक्षेयं निधिं वा त्यजति जडमतिनित्यभिक्षाभिलाषी, सद्धम्म यो न कुर्यादसुलनुभवं प्राप्य कृच्छ्रात्सुखैषी ॥ २८॥
Jain Education ined
For Private & Personal Use Only
Mainelibrary.org