SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ 售 ॥ १२३॥ Jain Education वैराग्यरस संपूर्णो, दीक्षाग्रहणहेतवे । चचालाथ महासेनो, रत्नपालनृपान्वितः ॥ १३ ॥ त्रिभिर्विशेषकम् । स्थाने स्थाने जनैः सर्वैर्विश्रामः पथि गृह्यते । दीयते च महादानमर्थिनामर्थसञ्चयैः ॥ १४ ॥ लुञ्छनानि क्रियन्ते च, दुकूलैः स्वर्णनाणकैः । नृपपृष्ठस्थया स्वस्त्रोत्तार्यते लवणं तदा ॥ १५ ॥ क्रियते बन्दिवृन्दैस्तु, विष्वग् जयजयारवम् । गीतबन्धेस्तु गायन्ते, गन्धर्वैर्भूपसद्गुणाः ॥ १६ ॥ वादित्राणि विचित्राणि, वाद्यन्ते च निरन्तरम् । नृत्यन्ति वारनार्यश्च, भरहभावेषु कोविदाः ॥ १७ ॥ स्वस्ववेश्म गवाक्षस्था, योषितो भर्तृसंयुताः । मार्गस्था अपि काश्चिच्च, यान्तं पश्यन्ति तं नृपम् ॥ १८ ॥ वर्धापयति काचिञ्च, मौक्तिकैरक्षतैरपि । चिरं जीव चिरं नन्देत्याशिषो ददते स्त्रियः ॥ १९ ॥ शृङ्गारिते पुरे तस्मिन्, हट्टादौ तोरणध्वजैः । पुष्पप्रकरसंपूर्णे, मार्गे भूपो व्रजत्यसौ ॥ ४२० ॥ इत्याद्यैरुत्सवैः सार्धं, नृपः संप्राप तद्वनम् । हयाद्रयात्समुत्तीर्य, प्रविवेश वनान्तरे ॥ २१ ॥ कृत्वा नैषेधिकीं तत्र, दत्त्वा तिस्रः प्रदक्षिणाः । मौलिमूलेऽञ्जलिं धृत्वा, वदन्ते तं गुरुं मुदा ॥ २२ ॥ For Private & Personal Use Only महा. ॥ १२३ ॥ jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy