SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ नाम्ना शय्यम्भवः सूरिविहरन्नवनीतले। समाययौ पुरे तस्मिन् , शिष्यैः पञ्चशतैर्वृतः॥३॥ युग्मम् । गत्वा गुर्वागमः प्रोक्तो, वनपालेन भूपतेः। तच्छ्रुत्वा भूपतिर्दृष्टो, ददौ तस्मै धनं बहु ॥ ४ ॥ ततो जहर्ष राजा यत्प्रस्तावे सूरिरागतः । तत्रस्थेन गुरुर्भाववन्दनेन च वन्दितः ॥ ५ ॥ ततः स्वमन्त्रिणः सर्वान, जनान्नगरवासिनः । सुशिक्षापूर्वकं सम्यक्, मुत्कलाप्य यथाक्रमम् ॥६॥ पूज्यानपि च संपूज्य, दानमानादिभिर्भृशम् । गीतवादित्रनाट्यादिपूजां कृत्वा जिनालये ॥७॥ जिनालयान्नवीनांश्च, जीर्णोद्धारान् विधाय च । सत्सार्मिकवात्सल्यं, कृत्वा दत्त्वा धनं तथा ॥८॥ दीनार्नेष्वपि लोकेषु, दानं दत्त्वाऽनुकम्पया । अमारिं सर्वभूतेषु, कारयित्वा विशेषतः ॥९॥ ऋणैर्मुक्तं जनं सर्व, कृत्वा ग्रामपुरादिषु । कृत्वाऽन्यद्गृहिधर्मञ्च, कृतार्थोऽभूद्वतार्थ्यसौ ॥ ४१० ॥ पञ्चभिः कुलकम् । सद्दिने शिबिकारूढः, प्रौढोत्सवसमन्वितः । चतुरङ्गचमूयुक्तः, संयुक्तः सचिवादिभिः ॥ ११॥ मस्तके धृतसच्छत्रश्चामरद्वयराजितः । अश्वारूढ क्वचिन्नागारूढश्च स्वेच्छया क्वचित् ॥ १२ ॥ Jain Education a l For Private & Personel Use Only O w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy