________________
अथ राजा धृतोत्साह, स्माह जामातरं प्रति । त्वदायत्तमिदं वित्तं, भुज्यतां स्वेच्छया सदा ॥ ८४ ॥ रत्नपालोऽथ सौधस्थो, भयशङ्काविवर्जितः। तत्र पञ्चविधान भोगान्, भुनक्ति स्म प्रियायुतः॥ ८५ ॥ महासेनो महीपालो, विवायैतत्सुताद्वयम् । निश्चिन्तोऽथ सुखीभूतो, जातः सन्तोषवानपि ॥ ८६ ॥ रत्नपालविनीतत्वं, संवीक्ष्य मुदमुबहन् । आनन्दपेशलमना, अन्यदैवं तमब्रवीत् ॥ ८७ ॥ मम तुर्य वयोजातं, न जातो नन्दनस्तथा । प्रायो भवेदपुत्रस्य, परो लक्ष्मीपतिर्नरः ॥ ८८ ॥ इदं प्राग्जन्मजं पुण्यं, यज्जातस्तव सङ्गमः । उष्णमध्ये मया प्राप्त, शीतं यत्तव दर्शनम् ॥ ८९ ॥ अहं तु साम्प्रतं वृद्धः, सञ्जातः पक्वपर्णवत् । अस्मिन्नसारे संसारे, सारं सुकृतसाधनम् ॥ ३९० ॥ कल्लोलचपला लक्ष्मीः, सङ्गमाः स्वप्नसन्निभाः । वात्याव्यतिकरोत्क्षिप्ततूलतुल्यञ्च यौवनम् ॥ ९१ ॥ इत्थं ज्ञात्वा नरेन्द्राहं, विरतो राज्यभारतः। साधयामि परं लोकं, गृहीत्वा संयम रयात् ॥ ९२॥ तस्मान्ममास्य राज्यस्य, त्वं हि भारधरो भव । नन्दनस्य च जामातुः, किञ्चिदप्यन्तरं न हि ॥९३॥ धन्योऽसि कृतपुण्योऽसि, पूज्योऽसि त्वं सुतापतिः। विवेकी गुणवांस्त्वं हि, राज्यं तेन प्रदीयते ॥९॥
।
Jain Education l
e
For Private 3. Personel Use Only
H
ainelibrary.org