________________
महा.
॥१२॥
ऊचतुश्च सदौचित्यं, वाचा मधुरया रयात् । हे सुभग ! त्वयाऽद्यास्मजीवितं सफलं कृतम् ॥७४॥ महद्यदर्जितं पुण्यमावाभ्या पूर्वजन्मनि । जागरितं तदद्यैव, भवेऽस्मिन तव दर्शनात् ॥ ७५ ॥ इत्युक्त्वा भूपतेः कण्ठे, सोत्कण्ठे ते उभे अपि । दक्षे चिक्षिपतुर्वेगावरमाले उभे अपि ॥ ७६॥ वर्धाप्य मौक्तिकैर्हस्तौ, संयोज्य च जजल्पतुः । त्वमावयोर्भवेऽमुष्मिन् , पतिरन्ये हि सोदराः ॥७७॥ त्वमेव शरणं स्वामिन्नस्माकं कोऽपि नापरः । विवाहार्थं विभो ! लोप्यं, नास्मत्पित्रोर्वचस्त्वया ॥७॥ इत्युक्त्वा ते गते मध्ये, सिद्धे कार्येऽतिहर्षिते । ततोऽवादीन्महासेनो, विनीतस्तं नृपं प्रति ॥ ७९ ॥ आमदाग्रहेण मत्पुत्र्योस्त्वं पाणिग्रहणं कुरु । देव्यापि त्वं वरः प्रोक्तो, नान्यथा देवतावचः॥ ३८० ।। साधू श्रीरत्नपालेन, विवाहः कन्ययोस्तयोः। महोत्सवशतैश्चक्रे, महासेनेन भूभुजा ॥ ८१ ॥ समस्तमपि तद्राज्यमपुत्रत्वाद्विशेषतः । तदा नृपेण जामात्रे, प्रदत्तं करमोचने ॥ ८ ॥
काव्यम्-अर्थोऽपि दत्तोऽथ सुवर्णमुख्यो, वराय तस्मै बहुकोटिसंख्यः।
श्रीरत्नपालो नृपतिः सुपक्षो, विवाहितो भूपतिनेति दक्षः ॥३॥
१
॥१२॥
Jain Education
For Private & Personal Use Only
Kaw.jainelibrary.org