________________
लाघवादाद्यकन्याया, भालेऽथ तिलकं कृतम् ॥ ६३ ॥ द्वितीयायाश्च कन्याया, नेत्रयोरञ्जनं कृतम् । तत्क्षणाद्विव्यरूपाढ्या, जातान्या तारलोचना ॥ ६४ ॥ देवकन्यासमे कन्ये, जाते रूपेण ते उभे। पद्मपत्रसुनेत्रे च, लावण्यरसकुम्पिके ॥६५॥ स्वर्णं यथाऽग्निना तप्तं, दधात्येवाधिकप्रभाम् । गतदोषे कुमार्यों ते, शुशुभाते तथाधिकम् ॥ ६६ ॥ तत्क्षणात्तं गुणं दृष्ट्वा, कन्ययोरुभयोरपि । राजवर्गादयो लोका, हर्षिताश्च चमत्कृताः ॥ ६ ॥ महासेनो महीपालः, पत्नीप्रेमावतीयुतः । ऊर्ध्वस्थो रत्नपालस्य, लुञ्छनानि चकार च ॥ ६८ ॥ हर्षोत्कर्षवशेनाथ, प्रोचेऽथ रचिताञ्जलिः । उपकारकृते राजन्नवतारो भवादृशाम् ॥ ६९ ॥ न केवलं त्वया पुत्रीदोष एव निराकृतः । चिरान्मे हृदयाहुःखशल्योद्धारः कृतोऽधुना ॥ ३७० ॥ कृताऽथ नगरे शोभा, संजाता धवलध्वनिः । भेरीप्रमुखनादेन, पूरिताः सर्वदिग्मुखाः ॥ ७१ ॥ मण्डिता दानशाला च, प्रारब्धोऽष्टाह्निकोत्सवः । अमारिपटहोऽत्रादि, राज्ञा देशे पुरादिषु ॥ ७२ ॥ अथ भूपसुते ते द्वे, रत्नपालं निरीक्ष्य तम् । अत्यन्तं धन्यमात्मानं, मन्यमाने जहर्षतुः ॥७३॥
Jain Education Intel
For Private & Personel Use Only
S
inelibrary.org