________________
महार
धर्म यतः-गन्धहीनं यथा पुष्पं, तटाकमिव निर्जलम् । कलेवरमिवाजीवं, घिमारीजन्म निःसुतम् ॥४॥ ॥१२॥ स्फारभूषणभाराऽपि, न भाति स्त्री सुतं विना । उदारतरतारापि, निशेव शशिवर्जिता ॥५॥
पतिवंशप्रवाहस्य, कृतश्छेदोऽधुना पुनः। किं करोमि?, क गच्छामि? दर्शयामि कथं मुखम् १॥६॥ सातिदुःखातुरा जाता, वलिता च गृहे गता । सुतार्तिपीडितात्यन्तं, सुप्ता चावासकूणके ॥ ७ ॥ भोजनावसरे श्रेष्ठी, स्वसद्मनि समागतः। नैव दृष्टा यदा पत्नी, तदा चेतस्यचिन्तयत् ॥८॥ कथं न दृश्यते भार्या?, या ममागमनक्षणे। प्रतिपत्तिं सदा चक्रे, रेरे काद्य गताऽस्ति सा ? ॥ ९॥ मध्ये दृष्टा तथाऽवस्था, पृष्टं केनासि दूनिता;? । सुप्ता शोकगृहे कस्मात्?, वद दुःखस्य कारणम् ॥२१०॥ शय्यातः सोत्थिता साध्वी, दुःखाश्रुक्लिन्नलोचना। म्लानानना महाशोकात्, हिमदग्धेव पद्मिनी ॥ ११॥ ईदृशीं वीक्ष्य स श्रेष्ठी, पप्रच्छ प्रेयसी पुनः । कथमुद्वेजिताऽद्य त्वं, दृश्यसे कमलानने ? ॥ १२ ॥ गद्गदाक्षरशब्देन, पत्नी प्रोवाच वल्लभम् । भवत्प्रसादतो नाथ!, मां दूनयति कोऽपि न ॥१३॥ परं दुःखकर कर्म, यत्केनापि न लुप्यते । अधुना भोजनं तावत्, कुरूत्सूरं च मा कुरु ॥ १४ ॥
१२॥
Jain Education
Rinal
For Private & Personal Use Only
ainelibrary.org
M