________________
अहमत्रत्यभूपालराज्याधिष्ठायिका सुरी । पुंरूपा तव संबन्धज्ञापनाय समागता ॥ १९ ॥ गुणं कृत्वाऽथ कन्याङ्गे, तत्पाणिग्रहणं कुरु । त्वत्साहाय्यकरी त्वस्मि, नाहं भो विप्रतारिका॥ ३२० ॥ प्राचीनपुण्यतो राजन् !, प्राप्यते देवदर्शनम् । विना भाग्यैर्न तुष्यन्ति, मानवे देवता खलु ॥ २१॥ यतः-अमोघा वासरे विद्युत् , अमोघं निशि गर्जितम्। अमोघा सज्जना वाणी अमोघं देवदर्शनम् ॥२२॥ अतः कारणतो भूप!, न भेतव्यं मनागपि । काचिचिन्ता न कार्येति, परभूपतितोऽस्म्यहम् ॥ २३ ॥ यस्मिन्कस्मिन्समुत्पन्ने, कार्ये स्मार्या त्वया वहम् । तव पुण्यप्रभावेन, सर्व भव्यं भविष्यति ॥२४॥ अरतिर्न त्वया कार्या, पुनरेवं हि कथ्यते । मयैवैतत्कृतं सर्च, तत्ते भावि समीहितम् ॥ २५॥ मद्वाक्यैरधुनैवात्र, सोत्साहा तव सम्मुखाः । आगमिष्यन्ति भूपाद्यास्त्वदाकारणहेतवे ॥ २६ ॥ गन्तव्यं हि त्वया शीघं, किञ्चिञ्चिन्त्यं न कारणम् । सर्व भावि तवाभीष्टं, नान्यथा सुरगीरहो ॥२७॥ इत्थं श्रुत्वा नृपः प्रोचे, नाहं जानामि किञ्चन । हे देवि! कथमारोग्यं, तत्कुर्वे कन्ययोस्तयोः? ॥२८॥ देव्यूचे हे महासत्त्व !, मा वादीरीदृशं वचः। भवतोऽस्ति रसः सिद्धो, भवेत्तस्माद्गुणः क्षणात् ॥ २९॥
Jain Education indian
For Private Personal Use Only
x
inelibrary.org