________________
धर्म
॥११८॥
नभःस्था पुनरप्यूचे, देवी प्रकटभाषया । नृपाद्या भो जनाः! सर्वे, श्रूयतां वचनं मम ॥ ८॥ सोत्कण्ठास्ते जना देवीवचने दत्तकर्णकाः । शुश्रुवुः स्वस्थचित्तेनामोघामिति सुरीगिरम् ॥ ९ ॥ राजन्कन्याद्वयस्यापि, कुष्ठान्धत्वरुजाहरः। उपायः सत्य एवायं, कथ्यते ते मयाऽधुना ॥ ३१० ॥ पाटलीपुरतोऽप्येकं, रत्नपालाभिधं नृपम् । क्रीडन्तं बेडया नद्यामत्रानेष्याम्यहं प्रगे ॥ ११॥ सम्मान्य स पुरीमध्ये, त्वयाऽऽनेतव्य उत्सवात् । बहुमानश्च दत्त्वाऽस्य, कथ्यं कार्यं निजं ततः॥१२॥ स एव तव कन्ये द्वे, गतरोगे करिष्यति । कन्याद्वयस्य भावी स, प्राग्जन्मस्नेहतो वरः ॥ १३ ॥ इदमुक्त्वा गता देवी, तिरोभूय क्षणादपि । ततः प्रमुदिता लोका, मन्त्रिणोऽपि विशेषतः ॥ १४॥ राजा राज्ञी च कन्ये दे, रोगशान्तिश्रुतेरपि । अत्यन्तं हर्षिताश्चित्ते, केकिवज्जलदागमे ॥ १५॥ ततो राजा प्रहर्षेण, कृत्वा तध्ध्यानमोचनम् । पारयित्वा तपश्चक्रे, पारणं परिवारयुक् ॥ १६ ॥ रत्नपालनृपस्याग्रे, नररूपेण देवता । एवं कन्याकथां प्रोक्त्वा, प्रोवाच पुनरप्यदः ॥ १७॥ वातप्रेरितपोलेन, मयाऽऽनीतस्त्वमत्र भोः । षड्योजनशतान्यस्मात्, स्थानान्नगरमस्ति ते ॥ १८॥
॥११॥
Jan Educationalen
For Private
Personel Use Only
orary.org