SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ अद्य मे सफलं जन्म, ममाद्य सफलं तपः । अद्य मे सफलं ध्यानं, हे देवि ? तव दर्शनात् ॥१७॥ किं देवि ! बहुनोक्तेन, सारमेकं वचः शृणु । वाञ्छितं देहि मे शीघ्रं, व्यग्रं स्वस्थीकुरुष्व माम् ॥९॥ वचनामृतसंतृप्ता, सन्तुष्टा निजमानसे । देव्युवाच महासत्त्व!, राजेन्द्र ! शृणु मद्वचः ॥ ९९ ॥ यत्त्वयैकाग्रचित्तेन, कृता भक्तिः स्वशक्तितः । तुष्टा जाताऽस्मि तेनाहं, रक्षका तव दुःखतः ॥ ३०० ॥ ब्रूहि त्वं तव किङ्कार्य, येनाहं भवता स्मृता । परं ते तनयो नास्ति, विधौ तुष्टेऽपि कर्मतः ॥ १॥ पूर्वजन्मार्जितं कर्म, यत्तस्य हि फलोदयः। लुप्यते नैव केनापि, प्रकारेण सुरासुरैः ॥ २॥ गाहा-पसुपङ्खिमाणुसाणं,बाले जो विहु विओयए पावोसो अणवच्चो जायइ,अह जायइ तो विवजिजा३ दयया वत्सरूपाणि, महिषीणां गवा तथा । यः पालयति पुण्यात्मा, जायन्ते तस्य नन्दनाः॥४॥ तत्त्वं सुतमतिं त्यक्त्वा, कार्यमन्यन्निवेदय । तस्य प्रत्युत्तरं येन, ददामि तव साम्प्रतम् ॥ ५॥ राजा जगाद हे देवि !, विद्यते मे सुताद्वयम् । परमेका गलत्कुष्ठा, द्वितीयाऽन्धाऽस्ति कर्मतः ॥६॥ दिव्यौषधं दिव्यरसं, दिव्याञ्जनमपि स्फुटम् । देहि मे यदि तुष्टाऽसि, येन रोगक्षयो भवेत् ॥ ७ ॥ Jain Education in For Private & Personel Use Only APainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy