SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ इदं प्रधानवचनं, श्रुत्वा भूपो व्यचिन्तयत् । असौ हितकरो मन्त्री, वर्त्तते मम सर्वदा ॥ ७५ ॥ एष मे साम्प्रतं सत्य, उपायः कथितोऽमुना । इत्यालोच्य नृपोऽवादीत्,प्रमोदभरनिर्भरम् ॥ ७६ ॥ हे मन्त्रिन् ? मम सांनिध्यं, कुरु त्वं सुरसाधने । यथा मेऽभीष्टदेवस्याराधने क्षोभणा नहि ॥ ७७॥ असहायः समर्थोऽपि, तेजस्यपि करोति किम् ? । निर्वाते ज्वलितो वह्निः, स्वयमेवोपशाम्यति ॥७८॥ ततस्त्वया महामन्त्रिन्!, साहाय्यं कार्यमादरात् । सुरीसाधनसामग्री, प्रगुणीकुरु सत्वरम् ॥ ७९ ॥ राज्यशिक्षा ततो दत्त्वा, सचिवेषु पृथक् पृथक् । शुचीभूय सदाचारो, देवताग्रे नृपो ययौ ॥ २८० ॥ शुभध्यानपरो भूत्वा, कृत्वा निश्चलमानसम् । त्यक्त्वाऽऽहारं च निद्राश्च, भूपतिस्तत्र संस्थितः ॥८१|| महाध्यानी महामौनी, मायामानविवर्जितः । स्थिरचित्तो धराधीशो, यतीश इव चाभवत् ॥ ८२॥ | अमात्योऽप्यग्रतः स्थित्वा, तत्रैव स्थिरमानसः । कर्पूरागुरुकस्तूरीवस्तुभिर्भोगमातनोत् ॥ ८३॥ जपं होमबलिं कृत्वा, दत्त्वा पूर्णी महाहुतिम् । देवीं नत्वा च भूपालः, स्तुतिमेवं विनिर्ममे ॥ ८४॥ आदिशक्ते नमस्तुभ्यं, विश्वविघ्नौघहारिणि!। त्वं विश्वपालका देवी, भक्तानां सिद्धिदायिनी ॥ ८५॥ Jain Education nal For Private & Personal Use Only Audiainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy