________________
॥ ११६॥
Jain Education
मन्त्री प्रोवाच हे स्वामिन्!, मा वादीरसमञ्जसम् | त्वदाधारे जगत्सर्व्वं वर्त्तते विश्वनायकः ! ॥ ६५ ॥ हे नाथ! त्वा विना राज्यं, शून्यं तिष्ठेत्कथं क्षितौ । विना त्वाञ्च नियोगित्वमयोग्यं मम सर्वथा ॥ ६६॥ अतः कारणतो नाथ !, न वचो वाच्यमीदृशम् । राजा प्रोचे चिकित्साद्यैः, रोगः पुत्र्योर्गतो नहि ॥६७॥ तद्दुःखपीडिते पुत्र्यौ, मर्तुकामे बभूवतुः । पूर्वमेकं न मेऽपत्यं दुःखमेतत्कथं सहे ? ॥ ६८ ॥ मन्त्री प्रोचे सुतारोगशान्त्यर्थं मे वचः शृणु । राज्यरक्षाकरीं शक्तिमाराधय स्वशक्तितः ॥ ६९ ॥ भविष्यति यदा तुष्टा, सा शक्तिः भक्तवत्सला । तदा सेत्स्यति ते कार्य, नन्दिनीरोगनाशतः ॥२७०॥ पुनरेकं वचः स्वामिन् !, श्रूयतां स्त्रीजनोचितम् । मरणं शरणं दुःखे, कातरस्य परस्य न ॥ ७१ ॥ यतः - संपदि यस्य न हर्षो विपदि विषादो रणे च धीरत्वम् ।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ ७२ ॥ ये नराः सत्यसंयुक्ताः, सुधैर्याः सर्व्वकर्मसु । कुकर्म्मरहिताः कष्टे, तैरियं मण्डिता मही ॥ ७३ ॥ अतो नाथ ! स्थिरीभूय, गोत्रजाराधनं कुरु । कातरत्वं परित्यज्य, भजस्व हृदि धीरता ॥ ७४ ॥
For Private & Personal Use Only
महा.
॥ ११६॥
w.jainelibrary.org