________________
एवं हि बहुधा राजा, शोचत्युच्चैर्दिने दिने । राजवर्गोऽखिलो राजपुत्रीदुःखेन दुःख्यभूत् ॥५४॥ इतश्च कन्यके ते द्वे, मर्तुकामे बभूवतुः । यैर्भुक्तं हि सुखं पूर्व, तैर्दुःखं सह्यते कथम् ? ॥ ५५ ॥ सरोगो यस्य देहः स्यान्निष्फलं तस्य जीवितम् । स हि जीवन्मृतो ज्ञेयो, यस्य गर्दा जनेऽजनि ॥५६॥ अथ गत्वा नृपस्याग्रे, पुत्रीभ्यामिति भाषितम् । हे तात! कुरु सामग्री, देहि नौ काष्ठभक्षणम् ॥५७॥
किं हि राज्यसुखेनापि, जीवितेन किमावयोः ? । यद्यङ्गे दूषणं जातं, ततो वै मरणं वरम् ॥ ५८ ॥ तिच्छ्रत्वा नृपतिर्दध्यौ, हाहा जातं किमीदृशम् ? ।अकाण्डे दुःखदो विश्वे, वक्रोऽयं दृश्यते विधिः॥५९॥
पुत्रीमोहो महान्मेऽस्ति, स मुक्तोऽपि न यास्यति । पुत्र्यौ विना न जीवामि, न जीवेन्मा विना प्रिया २६०॥ कुटुम्बस्य विनाशो मे, समकालं समागतः । किं वा राज्येन कोशेन, किं पुरैः पत्तनैर्मम ? ॥ ६१ ॥ किं गजैश्च हयैः किं वा, किं रथैः किमु पत्तिभिः । किं ममान्तःपुरेणापि, मन्त्रिभिर्बहुभिः किमु? ॥२॥ एकापत्यविहीनत्वात्सर्वमेतन्निरर्थकम् । साम्प्रतं सह पुत्रीभिर्मर्त्तव्यं मयका खलु ॥ ६३ ॥ एवं संशोच्य भूपालो, मरणाय समुद्यतः । आहृय च महामात्यं, गदिता चित्तकल्पना ॥ ६४ ॥
Jain Education inte
!
For Private & Personel Use Only
S
ainelibrary.org