________________
॥११४॥
धर्म. राज्ञोऽस्य नगर ग्रामपुराणि दश कोटयः । दश लक्षा गजरथाः, कोटिविंशतिः पत्तयः ॥ २२ ॥ त्रिंशं लक्षास्तुरङ्गाणां, कोशे संख्या धनस्य न । परमेकः सुतो नास्ति, कुलराज्यधुरन्धरः ॥ २३ ॥ ततः कृता नरेन्द्रेण, महोपाया अनेकशः । पुत्रप्राप्तिर्न तस्याभूत्परं कर्मानुभावतः ॥ २४ ॥ मणिमन्त्रौषधीयन्त्रदेवताराधनादिकम् । सर्व्वं सिध्यति पुण्येन तद्विना नास्ति किञ्चन ॥ २५ ॥ आलक्ष्यदन्तमुकुलाननबध्धदासानव्यक्तवर्णरमणीयवचः प्रवृत्तीन् ।
अङ्कागतान्प्रणयिनस्तनयान्वहन्तो, धन्यास्तदङ्गरजसा परुषीभवन्ति ॥ २६ ॥ वन्ध्यत्वं हि कुरण्डत्वं, मूकत्वं चाङ्गहीनता । कुष्ठखण्डादिकं सर्व्वं भवेयुः पापयोगतः ॥ २७ ॥ पुण्यकर्म तदारब्धं, सन्तानार्थं नृपेण तु । दीयते दीनदुःस्थेषु, दयादानं दिने दिने ॥ २८ ॥ देवाच कुरुते दानं, दत्ते दानं विशेषतः । तस्येत्थं कुर्व्वतः कर्मान्तरायमभवलघु ॥ २९ ॥ तस्य प्रेमवती राज्ञी, सगर्भाऽभवदन्यदा । राजा राज्ञी च लोकाश्च, सहर्षा जज्ञिरे भृशम् ॥ २३० ॥ समये सुषुवे राज्ञी, युगपत्पुत्रिकाद्वयम् । महोत्साहात्तदा राजा, वर्धापनमकारयत् ॥ ३१ ॥
Jain Educationational
For Private & Personal Use Only
महा.
॥ ११४॥
w.jainelibrary.org