SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ अनेकनगरीद्वीपपर्वतालिट्ठमादिकम् । चक्रारूढमिवापश्यन्नावः शीघ्रगतेर्वशात् ॥११॥ गतं मुहूर्त्तमात्रेण, बोहित्थं पूर्वसागरे । तटं प्राप्य स्वयं तस्थौ, स्वस्थोऽभून्नृपतिस्तदा ॥ १२॥ पोतादुतीर्य राजाथ, बहिर्नीराद्विनिर्गतः । तावत्तत्र पुमानेक, आगतः संमुखो रयात् ॥ १३ ॥ स प्रोवाच महाराज!, मा विषादं करिष्यसि । विदेशे चागते दूरं, नाभव्यं भावि किञ्चन ॥ १४ ॥ अत्राहं ग्रामसीमानि, जनान्जनपदानपि । किञ्चिचान्यन्न जानामि, किं करोमिक्क याम्यहम् ? ॥१५॥ I इत्थं त्वया विचिन्त्यं न, कदाचिदपि मानसे । सर्वत्र सर्वदा सर्व, भविष्यति शुभं तव ॥ १६ ॥ अहं तव सहायोऽस्मि, साम्प्रतं स्वस्तिकारकः । परिणामे शुभं सर्वं, भवेद् भवादृशां भुवि ॥१७॥ शृणु सुन्दर ! मे तथ्यं, पुनर्वचनमुत्तमम् । यस्मिन् श्रुते तवाश्वासो, महान् चित्ने भविष्यति ॥ १८॥ पूर्वसागरदेशोऽयं, तत्र रत्नपुराभिधम् । स्वर्निवाससमा भूमिर्यत्रास्ति जनसौख्यदा ॥ १९ ॥ महासेनाभिधोऽत्रास्ति, ज्ञातो दिक्षु दशस्वपि । समस्तपूर्वदिकूस्वामी, चामीकरसमप्रभः ॥ २२० ॥ पत्नी प्रेमवती तस्य, साध्वीजनशिरोमणिः। प्रियापञ्चसहस्रेषु, मुख्या दक्षा च वर्तते ॥२१॥ ००००००००००००००००००००० iwww.jainelibrary.org Jain Educa For Private Personal Use Only t ional
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy