________________
॥११३॥
इत्थं पूजाप्रभावेण, भुक्त्वा राज्यादिकं सुखम् । राजा प्रान्ते गुरोः पार्श्वे, व्रतं प्राप्य शिवं ययौं ॥ २॥ महा.
उक्तञ्च-श्रेयः करोति दुरितानि निराकरोति, लक्ष्मी तनोति शुभसञ्चयमातनोति । || मान्यत्वमानयति कर्मरिपून्निहन्ति, पूजा जिनस्य विहिता बहुसौख्यदा च॥३॥
इति वृद्धाकुमारकथा समाप्ता। भो राजन् रत्नपाल! त्वं, प्रत्यहं जिनपूजनम् । कुरुष्वैकाग्रचित्तेन, महासौख्यं यथा भवेत् ॥ ४ ॥ जिनार्चाफलमाकर्ण्य, जहर्ष व्यजन्तवः । गृहीतो नियमः सव्वैर्मुनिपार्श्वे जिनार्चने ॥ ५॥ वन्दित्वा तं गुरुं राजा, रत्नपालो ययौ गृहे । जगामान्यत्र भव्यानों, प्रतिबोधाय सद्गुरुः ॥ ६॥ अथ श्रीरत्नपालोऽपि, तदिनात्सुविशेषतः । जिनपूजादिकं सर्व, चक्रे पुण्योद्यमं महत् ॥ ७॥ ग्रीष्मकालेऽन्यदा राजा, गङ्गायां जलकेलये । गतवान्नावमारुह्य, तत्रैकाकी विवेश सः ॥ ८॥ क्रीडा प्रकुर्वतस्तस्य, यज्जातं तन्निशम्यताम् । तावदाकस्मिको वायुरजायत महाबलः॥९॥ वातेन प्रेरिता सा नौश्चलिता त्वरितं तदा । उभयोस्तटयोामान , भ्रमतो दृष्टवानृपः॥ २१० ॥
॥११३॥
Jain Educat
i onal
For Private & Personel Use Only
www.jainelibrary.org