________________
तावकीनः कर्मकरः, कृत्यं सर्वं करोम्यहम् । आदेशं देहि मे देवान् , तवार्थे पूजयामि यत् ॥ ९१ ॥ भवता कथिते भक्त्या, जिनपूजां चकार सः । त्वद्भार्या सुविचाराऽथ, चक्रेऽस्य सुतवत् हितम् ॥९२॥ क्रमाद्भवान्पटुर्जातश्चक्रे देवार्चनं स्वयम् । ततः कर्मकरः क्षीणदेहो जातो दिने दिने ॥ ९३ ॥ त्वयैवं भणितं वत्स!, कथं क्षीणं वपुस्तव । शरीरं बाध्यते किञ्चिदाधिव्याध्यादिभिः किमु ? ॥ ९४ ॥ सोऽवोचत्तात ! मे व्याधिः, शरीरे नास्ति कोऽपि हि । परं मे बाधते चित्तं, देवपूजामकुर्वतः॥ ९५ ॥ अतो ममारतिदेहे, वर्तते महती विभो ! । ततः श्रेष्ठिंस्त्वया प्रोक्तं, भोस्त्वं पूजां पृथक् कुरु ॥ ९६ ॥ ततोऽसौ सर्वदा पूजामकार्षीच्छुभभावतः। तदा त्वया सुतत्वेन, स्थापितः स्वग्रहान्तरे ॥ ९७ ॥ क्रमेण कालयोगेन, शूलरोगाद्विपद्य सः । त्वगृहे सुतभावेन, समुत्पन्नः स्वपुण्यतः॥ ९८ ॥ श्रुत्वेति वृध्धाकुमारो, जातिस्मृतिमवाप सः । गुरुक्तं सकलं सत्यं, ज्ञातं देवार्चनाफलम् ॥ ९९ ॥ एवं जिनेन्द्रपूजायाः, कृतायाः पूर्वजन्मनि । फलं ज्ञात्वा कुमारोऽगात्, स्वगेहे पितृसंयुतः ॥२००॥ क्रमेण तत्पुरे वृध्धाकुमारोऽभूद्धराधिपः । जिना_दानमुख्यानि, चक्रे पुण्यान्येनकधा ॥ १ ॥
Jain Educand
negge
For Private Personel Use Only
||ww.jainelibrary.org