SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ल ॥ ११२ ॥ ततस्तत्रागतः शय्यामारुह्य सुविमानवत् । श्वशुरस्य कुटुम्बं तन्मिलितं बहुमानितः ॥ १८० ॥ दत्ताः प्रभूतकन्याश्च तैस्तैर्विद्याधरैः पुनः । मणिमुक्तासुवर्णैश्च सत्कृतः स्नेहपूरितैः ॥ ८१ ॥ दत्ता विविधविद्याश्च तस्मै साधनपूर्विकाः । संप्राप्य वरवस्तूनि, स हृष्टः खेचरान्जगौ ॥ ८२ ॥ यास्यामि स्वपुरेऽथाहमनुज्ञा मे प्रदीयते । ततो विमानमारुढश्चचाल सह खेचरैः ॥ ८३ ॥ तद्यानपात्रतः पूर्वमाययौ स्वपुरे रयात् । बहुकन्यामहालक्ष्मीयुक्तश्चागात् स्वमन्दिरे ॥ ८४ ॥ मातृपित्रादयो हृष्टा, वालितास्तेन खेचराः । क्रमेण यानपात्रं चागतं क्षेमेण तत्पुरे ॥ ८५ ॥ पृथक् विभज्य तद् द्रव्यं, तेनानीतं निजं गृहे । सुखेनागमयत्कालं, पुण्यैः किं नाम दुष्करम् ? ॥ ८६ ॥ एकदा तत्पुरोद्याने, सूरिर्ज्ञानी समागतः । वन्दनाय गतो वृद्धाकुमारः पितृसंयुतः ॥ ८७ ॥ श्रुते धर्मोपदेशेऽस्य, जिनदासोऽवदत्पिता । प्रभो ! वृद्धाकुमारेण, पूर्व किं सुकृतं कृतम् ? ॥ ८८ ॥ येनैताः खेचरीकन्या, धन्या यः प्राप भूरिशः । गुरुरूचे कुमारोऽभूत् पूर्वं स्वगृहकर्मकृत् ॥ ८९ ॥ स्वच्छरीरेऽन्यदा श्रेष्ठिन् !, व्याधिः कश्चिदजायत । अहं खदाज्ञया तात !, करोमि जिनपूजनम्॥९०॥ 1 Jain Educationational For Private & Personal Use Only 90000 महा. ॥११२॥ w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy