________________
1
आयात्यग्रे वरोद्यानं, वापीप्रासादसुन्दरम् । तन्मध्ये वर्त्तते स्वर्णमयं देवगृहं वरम् ॥ ४७ ॥ तन्मध्ये श्रीयुगादीशदेवं नत्वा च पूज्यते । तत्पूर्व्वद्वारदेशस्था, सद्घण्टा वाद्यते बलात् ॥ ४८ ॥ तस्य नादेन सर्वाणि, वादित्राण्यपि तत्क्षणात् । देवताधिष्ठितान्येवं नदन्ति स्वयमेव हि ॥ ४९ ॥ श्रुते तेषां च निर्घोषे खगा भारण्डपक्षिणः । उड्डीयन्ते तदा त्रासात्, कोटिशो गिरिवासिनः ॥ १५० ॥ तत्पक्षपवनेनाशु, जलं प्रोच्छलति क्षणात् । तदम्बुप्रेरिताः पोताः, आवर्त्तान्निस्सरन्त्यथ ॥ ५१ ॥ ततः स्युर्यानपात्राणि, मार्गवर्त्तीनि वारिधौ । एषा कुमार ! कल्पोक्ता, वार्त्ता ते कथिता मया ॥ ५२ ॥ श्रुत्वा वृद्धाकुमारेण, वार्त्ता तां नरभाषिताम् । प्रविश्य विवरं चक्रे, तत्सर्वं सस्वतस्तदा ॥ ५३ ॥ पोतेऽथ निर्गते लोकाः, कल्पज्ञनरसंयुताः । संप्रापुः सिंहलद्वीपं कुमारस्तु बिले स्थितः ॥ ५४ ॥ ते पृष्टा भूभुजा वृद्धाकुमारः किं न दृश्यते ? । विवरस्थः स तैरुक्तस्तदाऽसौ कुपितो नृपः ॥ ५५ ॥ कुमारो मुक्त इत्येते, वणिजो गुप्तमन्दिरे । क्षिप्ता राज्ञाऽथ दुःखेन, कालं निर्गमयन्ति ते ॥ ५६ ॥ इतश्च वृद्धाकुमारो, देहं वस्त्राणि चात्मनः । प्रक्षाल्य वापिकामध्ये, पुष्पाण्यानीय काननात् ॥ ५७ ॥
Jain Educationational
For Private & Personal Use Only
www.jainelibrary.org