________________
品
॥११०॥
Jain Education
दृष्द्वैतान्दुःखिनो लोकान् किं तिष्ठसि निरुद्यमः ? | दुर्लभोऽवसरो ह्येष, परोपकृतिसाधकः ॥ ३६ ॥ यतः - परप्राणपरित्राणं, स्वप्राणैः केऽपि कुर्वते । लवणं दह्यते वह्नौ, परदोषोपशान्तये ॥ ३७ ॥ एषां सकाशाल्लेखं च गृहीत्वा सिंहलेशितुः । शीघ्रमर्पय पश्चात्तु, शुभं सर्व्वं भविष्यति ॥ ३८ ॥ ततः कीरः कुमारस्योत्सङ्गे गत्वा क्षणात्स्थितः । सर्वं वृद्धाकुमारेण, ज्ञातं शुक्या निवेदितम् ॥ ३९ ॥ कीरकण्ठे ततो बद्धो, लेखो वृत्तान्तसूचकः । शुकेन सिंहलेशस्य, दत्तो लेखः स वेगतः ॥ १४० ॥ ज्ञात्वा भूपेन लेखार्थं, पटहोद्घोषणा कृता । यानयात्रं महावर्त्तान्निष्कासयति यो नरः ॥ ४१ ॥ लक्षं तस्मै प्रदीयन्ते, दीनारा देवसाक्षिकम् । कल्पवेत्ता नरः कश्चिदस्पृशत् पटहं तदा ॥ ४२ ॥ गृहीत्वा हरिणीपुच्छं, षण्मासं तैलभावितम् । नृपादेशान्नरः सोऽगात्, वृध्धाकुमारसन्निधौ ॥ ४३ ॥ विना वृध्धाकुमारं को, नास्त्यन्यः सात्त्विकाग्रणीः । विवरं कल्पशास्त्रोक्तं, तस्य तत्तेन दर्शितम् ॥४४॥ दत्त्वा वृद्धाकुमारस्य, मृगपुच्छस्य दीपिकाम् । कल्पप्रोक्तविधिं सर्व्वं कथयामास मानवः ॥ ४५ ॥ नरेण सत्त्वसारेण, दीपिकायाः प्रकाशतः । प्रवेशो विवरे कार्यों, गम्यं तत्र कियद् द्रुतम् ॥
1
४६ ॥
ational
For Private & Personal Use Only
महा.
॥११०॥
w.jainelibrary.org