SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ तत्राभूत् क्षितिपश्चन्द्रश्चन्द्रवन्निर्मलो गुणैः । तस्य राज्ञः प्रियः श्रेष्ठी, जिनदासाभिधः सुधीः ॥२५॥ परमः श्रावकः सोऽभूद्, भार्या तस्य मनोरमा । जिनधम्म रता सा च, जिनपूजापरायणा ॥ २६ ॥ कान्तराययोगत्वादपुत्रत्वे तयोः सति । प्रभूतः प्रययौ कालो, वृद्धत्वेऽथ सुतोऽभवत् ॥ २७ ॥ वृद्धत्वे नन्दने प्राप्ते, विधाय विविधोत्सवान् । वृद्धाकुमार इत्यस्य, पित्राद्यैर्नाम निर्मितम् ॥ २८ ॥ ववृधेऽसौ क्रमेणाथ, पाठितः प्राप्तयौवनः । कस्यचिच्छ्रेष्ठिनः पुत्री, तातेन परिणायितः ॥ २९॥ सोऽन्यदा कामुकीक्रीडां, वनं कर्तुं जनैर्वृतः। रथारुढो व्रजन्मार्गेऽशृणोद्धार्ती जनाननात् ॥ १३० ॥ निष्पुण्यवत्कुमारोऽसौ, वित्तं नार्जयति स्वयम् । जननीस्तन्यवल्लक्ष्मी, भुनक्त्यद्यापि पैतृकीम् ॥३१॥ श्रुत्वैवं मातृपितरौ, मुत्कलाप्य शुभेऽहनि । चचाल सार्थयुक्तोऽसौ, पोतमारुह्य वारिधौ ॥३२॥ पार्वतीयमहावर्तेऽपतत् पोतः कुवायुतः । तदावर्त्तात्कथमपि, बोहित्थं निस्सृतं न तत् ॥ ३३ ॥ जना वृध्धाकुमारश्च, ततः पोतं विमुच्य तम् । प्रत्यासन्नगिरी गत्वा, स्थिता आम्रतरोरधः ॥ ३४ ॥ कीरस्तदानशाखायामुपविष्टोऽस्ति सप्रियः । शुकं प्रति शुकी प्रोचे, शृणु वल्लभ! मद्वचः ॥ ३५ ॥ Jain Education toga For Private & Personal use only 100w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy