________________
तदाऽऽसनात्समुत्थाय, निवेश्य मुनिमासने । विधिना तञ्च वन्दित्वा, भूपोऽवादीत्कृताञ्जलिः॥११०॥ अद्य जातः कृतार्थोऽहं, सफलं मेऽद्य जीवितम् । पूर्वपुण्योदयो जातो, यज्जातं तव दर्शनम् ॥ ११॥
काव्यम्-अद्याचिन्त्यमहाफलेन फलितो मत्पुण्यकल्पद्रुमः,
संसाराम्बुधिमजनाविकलितं सद्यानपात्रं मया । विद्याऽद्यावरगामिनी शिवपुरे गन्तुञ्च लब्धाऽथवा,
सत्साधुर्यदयं तपःकृशवपुः प्राप्तो मदीये गृहे ॥ १२॥ काव्यम्-हरत्यघं सम्प्रति हेतुरेष्यतः, शुभस्य पूर्वाचरितैः कृतं शुभैः।
शरीरभाजां भवदीयदर्शनं, व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥१३॥ नाभ्युत्थानक्रिया यत्र, नालापमधुरा गिरः । गुणदोषकथा नैव, तस्य हम्ये न गम्यते ॥ १४ ॥
जडोऽपि सज्जने दृष्ट, जायते तोषनिर्भरः। उदिते विकसत्येव, शशाङ्क कुमुदाकरः ॥ १५॥ | अभ्युत्तिष्ठन्ति सन्तोऽपि, सद्वृत्तागमने सति । सुधारुचि समायाते, यथा जलनिधिर्जलैः ॥ १६ ॥
Join Education
a
l
For Private & Personal Use Only
Whww.jainelibrary.org