SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ धर्म. ॥१०८॥ Jain Education L ऊचेऽथ वसुगन्धर्वः, श्रूयतां खेचराधिपाः ! । नैमित्तिकेन मे पूर्वमिदं ज्ञानेन भाषितम् ॥ ९९ ॥ स्नात्वा सत्त्वात् महावह्नौ रत्नपालनरेश्वरः । तव पुत्रीद्वयस्यापि भविष्यति वरोऽपरः ॥ १०० ॥ युष्माकं कथ्यते तेन, न कार्यमसमञ्जसम् । कुर्वते रङ्गभङ्गं ये, ते हि मूढा दुराशयाः ॥ १ ॥ अस्माकं रोचते चैष, वरैर्नान्यैः प्रयोजनम् । श्रुत्वैतत्खेचरा वाक्यं, मौनमाश्रित्य संस्थिताः ॥ २ ॥ वसुगन्धर्व्वभूपोऽथ, कन्याद्वययुतं वरम् । नीत्वा विद्याधरैः सार्धं, निजे राज्ये समागतः ॥ ३ ॥ विवाहस्योत्सवं तेन, पुनः कृत्वा नृपोऽथ सः । विद्याधरशतैर्युक्तः, प्रेषितो निजपत्तने ॥ ४ ॥ विवाहे यद्धनं लब्धं, तन्मध्यात् द्यूतकारिणे । ददौ षोडश लक्षाणि, दानशौण्डतया नृपः ॥ ५ ॥ ये च विद्याधरास्तत्र, भूभुजा सार्धमागताः । तान्सन्तोष्य निजे स्थाने, विससर्ज नराधिपः ॥ ६ ॥ | भटानां कोटिभिर्युक्तः, सुभटः खेचरैर्वृतः । रत्नपालो रराजोच्चैरहो पुण्यस्य वैभवम् ॥ ७ ॥ अन्यदा स धराधीश, ईशलीलाविराजितः । सुरेन्द्र इव शोभाढ्यः, (सभायां) संभालं पूर्वसंस्थितः ॥८॥ तदा श्राद्धस्य तस्यैव वन्दापनकृते कृती | सभायां व्योममार्गेण, चारणर्षिः समागतः ॥ ९ ॥ " For Private & Personal Use Only महा. ॥१०८॥ jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy