SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ एवं विज्ञमुखात् श्रुत्वा, नीत्वा चावां द्रुतं वने । तेनेदं निर्मितं कुण्डं, देवताधिष्ठितं वरम् ॥ ९ ॥ असौ विद्याधरः कश्चिदस्मत्प्राप्तिं समीहते । झम्पां वह्नौ परं दातुमशक्तः सत्त्ववर्जितः ॥ ९१॥ तेनायं विकलो दीनो, जातो दिव्यानुभावतः । सत्त्वं विना कथं सिद्धिर्जन्तूनां जायते खलु ? ॥ ९२ ॥ ततो विद्याधरकन्यावचः श्रुत्वाऽतिलजितः । गतश्चाधोमुखीभूय, स्वस्थाने सिद्धिवर्जितः ॥ ९३ ॥ अथ सत्त्वनिधानं स, राजा श्रीरत्नपालकः । अदात् झम्पां सुवेगेन, वह्निकुण्डेऽपि दारुणे ॥ ९४ ॥ सुधारससमं सत्वादग्निकुण्डं तदाऽभवत् । स्नात्वा तत्र नृपः कुण्डासिद्धकार्यों विनिर्गतः ॥ ९५॥ तस्मिन्नवसरे ज्ञात्वा, वृत्तान्तं ज्ञानयोगतः । आगतस्तत्र वैताढ्यात्, वसुगन्धर्वखेचरः ॥ ९६ ॥ कृत्वा सकलसामग्री, विवाहं सुतयोर्द्धयोः । सार्धं श्रीरत्नपालेन, चकार समहोत्सवम् ॥ ९७ ॥ युग्मम् । विद्याधरेशा अपरेऽपि तत्रागता मिथस्ते विमृशन्ति कोपात् । न युक्तमेतत्परिणीतमेतत्, कन्याद्वयं भूचरभूभुजा यत् ॥ ९८॥ Jain Educational For Private & Personel Use Only XMainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy