SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ॥१०७॥ Jain Education अथ तेन समं राजा, कौतुकी तत्र कानने । ययौ च कन्यकायुग्मं दृष्ट्वा पप्रच्छ सादरम् ॥ ७९ ॥ वनस्थे के युवा नार्यौ ? कोऽयं विकलमानवः ? । किमेतदग्निकुण्डञ्च, पार्श्वे यूयं कथं स्थिताः ? ॥ ८०॥ कथ्यतां निजवृत्तान्तो, ममास्ति कौतुकं महत् । राजाऽहं रत्नपालाह्वः, पाटलीपुरनायकः ॥ ८१ ॥ इत्थं पृष्ठे नृपेणाथ, किञ्चिद् ध्यात्वा निजे हृदि । तयोरेकाऽवदत्कन्या, शृण्वस्माकं कथां नृप ! ॥ ८२॥ वैताढ्ये चोत्तरश्रेण्यां, विश्वावसुपुरे वरे । वसुगन्धर्वनामाऽस्ति, राजा खेचरनायकः ॥ ८३ ॥ सुरसेना प्रिया तस्य, शीलादिगुणशालिनी । देवसेना च गन्धर्वसेना च द्वे तयोः सुते ॥ ८४ ॥ ज्ञात्वा विवाहयोग्ये ते, पित्रा पृष्टो निमित्तवित् । मत्पुत्र्योः को वरो भावी?, ज्ञानेन वद कोविद ! ॥ ८५ ॥ नैमित्तिकस्ततोऽवादीत्, शृणु राजन् ! यथा वरः । यो भविष्यति ते पुत्र्योस्तथैव कथयाम्यहम् ॥ ८६ ॥ श्री पाटलीपुरासन्ने, प्राच्यां दिशि महावने । वह्निकुण्डं ज्वलद्वहिं, प्रचण्डं प्रकटीकुरु ॥ ८७ ॥ तस्योपकण्ठमेते द्वे, प्रकुर्वन्त्यौ महातपः । वने तस्मिन्महाराज !, तव पुत्र्यौ निवेशय ॥ ८८ ॥ | मणी मन्त्रौषधादीनां, सान्निध्येन विनापि यः । योऽग्नौ स्नास्यति सत्त्वेन त्वत्पुत्र्योः स वरो मतः ॥८९॥ For Private & Personal Use Only महा. ॥१०७॥ www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy