SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सोऽचिन्तयत्तदा धूर्तोऽप्यहं दीपेन वञ्चितः । काकोऽपि वाच्यते केन, सत्या जातेति लोकवाक् ॥६॥ निष्कास्य दीपपृष्ठे हि, दूरं नीत्वाऽत्र कानने । क्षिप्तोऽहं चण्डिकादेव्या, दत्तं निःशूकताफलम् ॥६९॥ दध्यौ दीपागमे चण्डी, मया वैरी विडंबितः । तैलादानाद्यवज्ञां स, न करिष्यत्यतः परम् ॥ ७० ॥ अथ द्यूतकरश्चिन्तापरस्तस्मिन् वने भ्रमन् । अग्निकुण्डं ज्वलद्दिव्यं, ददर्श क्वापि चित्रकृत् ॥ ७१॥ दृष्टं तेन च तत्पार्श्वे, नारीयुग्मं मनोहरम् । नवयौवनसंपन्नं, निर्जयत्रिदशस्त्रियः ॥७२॥ तदने तु नरो दृष्ट, एको विकलमूर्तिभाक् । दीनाननः कशश्चित्रं, तद् दृष्ट्वा कितवोऽवदत् ॥७३ ॥ हे भद्रे ! के युवां नायौँ ? वनस्थे नरसंयुते । मदने निजवृत्तान्तः, कथ्यतां मेऽस्ति कौतुकम् ॥७४॥ धूर्ताकृति नरं दृष्ट्वा, न ना? किञ्चिदूचतुः । तस्यतुर्मोनमाश्रित्य, कितवः प्राप नोत्तरम् ।। ७५ ॥ ततो मार्गेण तेनात्मपदश्रेण्यानुसारतः । स्वस्थानं प्रति चलितः, संप्राप्तश्च निजं पुरम् ॥ ७६ ॥ सभायां कितवो गत्वा, रत्नपालनरेशितुः । कथयामास तां वार्तामपूर्वा कन्ययोद्धयोः ॥ ७७॥ अपूर्वो यो वदेद्वाती, स्वर्णलक्षं तु भूपतिः। तस्मै दत्ते ततो हेमलक्ष द्यूतकृते ददौ ॥ ७८ ॥ Jan Education For Private Personal Use Only K rjainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy